शिक्षाम् आधुनिकीं समावेशिनीं निर्मातुं कृत्रिमबुद्धेः भूमिका मुख्या : बृजमोहन अग्रवालः
-एआई आधारितया शिक्षया भारतस्य युवभ्यो मिलितो वैश्विक मंच: सांसद बृजमोहन अग्रवालः रायपुरम्/ नवदिल्ली 18 फ़रवरीमासः (हि.स.)। बृजमोहन अग्रवाल रायपुरसांसदः वरिष्ठभाजपानेता च बुधवासरे नई दिल्ली नगरे “शिक्षायां एआई परिचयः” इति विषयकायां शिक्षा महिला
संसदीय स्थायी समिति की बैठक में शामिल सांसद बृजमोहन अग्रवाल


-एआई आधारितया शिक्षया भारतस्य युवभ्यो मिलितो वैश्विक मंच: सांसद बृजमोहन अग्रवालः

रायपुरम्/ नवदिल्ली 18 फ़रवरीमासः (हि.स.)।

बृजमोहन अग्रवाल रायपुरसांसदः वरिष्ठभाजपानेता च बुधवासरे नई दिल्ली नगरे “शिक्षायां एआई परिचयः” इति विषयकायां शिक्षा महिला बाल युवा तथा क्रीडासम्बद्धायाः संसदीयस्थायीसमितेः महत्वपूर्णायां बैठके सहभागित्वं कृतवान्।

तत्र अग्रवालमहोदयेन उक्तं यत् शिक्षाव्यवस्थायां कृत्रिमबुद्धिमत्तायाः समावेशः कालानुरूपा आवश्यकता अस्ति। एआई न केवलं शिक्षणपद्धतीः आधुनिकीकरिष्यति, अपि तु विद्यार्थिनः वैश्विकस्पर्धायै सज्जान् करिष्यति। तेन विशेषतः उल्लिखितं यत् प्रौद्योगिक्याः उपयोगः भारतीयशिक्षाव्यवस्थायाः मूलभावनां सामाजिकसंतुलनं च मनसि निधाय कर्तव्यः, येन नागरग्रामीणक्षेत्रयोः विद्यार्थिनः समानावसरान् प्राप्नुयुः।

अस्यां गोष्ठ्यां कंबोडियाविश्वविद्यालयस्य अमेरिकादेशीयसंस्थायाः उपाध्यक्षः डॉ विशाल मिश्रा महोदयः शिक्षाक्षेत्रे एआई प्रभावस्य वर्धमानपरिणामान्, तस्य व्यावहारिकप्रयोगान् भविष्यसम्भावनाः च विषये विस्तृतां प्रस्तुतीं दत्तवान्। तेन निर्दिष्टं यत् एआई व्यक्तिगतशिक्षणप्रणालीं, मूल्यांकनव्यवस्थां तथा अध्यापकसहाय्यं प्रति महत्वपूर्णां भूमिकां निर्वहति।

सांसदः बृजमोहन अग्रवाल अवदत् यत् भारतदेशवत् युवप्रधानराष्ट्रस्य कृते एआई आधारितशिक्षा नवोन्मेषस्य माध्यमं भवितुं शक्नोति, यदि सा समावेशी नैतिक छात्रकेन्द्रितदृष्ट्या अनुपालिताभवेत्। तेन शासनद्वारा शिक्षाक्षेत्रे क्रियमाणानां डिजिटल तथा प्रौद्योगिकसुधाराणां प्रशंसा कृत्वा उक्तं यत् एषा पहल भारतं ज्ञानाधारितअर्थव्यवस्थायाः दिशि अधिकं सुदृढं करिष्यति।

अस्यां गोष्ठ्याम् उच्चतरशिक्षाविभागः शिक्षा मंत्रालय इत्यस्य प्रतिनिधयः, शिक्षाक्षेत्रसम्बद्धाः विशेषज्ञाः तथा अन्ये संसदीयसदस्याः अपि स्वस्वविचारान् प्रस्तुतवन्तः।

---------------

हिन्दुस्थान समाचार