Enter your Email Address to subscribe to our newsletters

रामगढ़म्, 18 फ़रवरीमासः (हि.स.)।
रामगढ़ निवासी तथा रांची विश्वविद्यालयान्तर्गतस्य खोरठाभाषाविभागस्य सहायकप्राध्यापकः डॉ निरंजन कुमार महतो इत्यस्य ‘सामान्य लोक साहित्य’ इति पुस्तकस्य विमोचनं झारखंड राज्यस्य लोकभवने संतोष गंगवारो राज्यपालसह कुलाधिपतिना कृतम्। राज्यपालमहाभागेन अस्य साहित्यकृतेः कृते शुभाशंसाः प्रदत्ताः।
डॉ निरंजनकुमारमहतो विरचितं ‘सामान्य लोक साहित्य’ इति ग्रन्थः सामान्यजनानां भाषासंस्कृत्याधारितः अस्ति, यस्मिन् लोकजीवनस्य विविधपक्षाणां विस्तृतम् अध्ययनं प्रस्तुतम् अस्ति। अस्मिन् ग्रन्थे मुख्यतया लोकसाहित्यस्य अवधारणा, लोकगीतानि, लोककथाः, लोकगाथाः, लोकनाट्यम्, लोकोक्तयः, मुहावराः, पहेलिकाः तथा लोकमन्त्राः समाविष्टाः सन्ति।
एषा पुस्तिका विद्यार्थिनां स्पर्धापरीक्षार्थिनां च कृते अत्यन्तं उपयोगिनी सहायका च भविष्यति।
---------------
हिन्दुस्थान समाचार