मध्यप्रदेशस्य मुख्यमन्त्रीः डॉ.यादवः अद्य ‘मुम्बई-जलवायु–सप्ताह:-२०२६’ इत्यस्मिन् विशेषसत्रस्य अध्यक्षतां करिष्यति
– मध्यप्रदेशस्य ‘नवकरणीय–ऊर्जा तथा ऊर्जा–भण्डारण’ विषयक-नवाचाराणां मुम्बई–नगरे प्रस्तुतीकरणं भविष्यति भोपालनगरम्, १८ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रीः डॉ.मोहन–यादवः १७ तः १९ फरवरीमासपर्यन्तं आयोजितायां मुंबई-जलवायु–सप्ताह:-2026 इत्यस्
सीएम मोहन यादव (फाइल फोटो)


– मध्यप्रदेशस्य ‘नवकरणीय–ऊर्जा तथा ऊर्जा–भण्डारण’ विषयक-नवाचाराणां मुम्बई–नगरे प्रस्तुतीकरणं भविष्यति

भोपालनगरम्, १८ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रीः डॉ.मोहन–यादवः १७ तः १९ फरवरीमासपर्यन्तं आयोजितायां मुंबई-जलवायु–सप्ताह:-2026 इत्यस्मिन् अद्य बुधवासरे विशेषसत्रस्य अध्यक्षतां करिष्यति। अस्मिन् अवसरे राज्यस्य सतताः, विस्तारयोग्याः तथा निवेश–अनुकूलाः नवकरणीय–ऊर्जा एवं ऊर्जा–भण्डारणसम्बद्धाः नवाचाराः प्रस्तुतीकरणरूपेण प्रदर्शयिष्यन्ते।

जनसम्पर्क–अधिकारी क्रान्तिदीप–अलूनेन उक्तम् यत् मुख्यमन्त्री डॉ.यादवः सायं ६:३० वादनात् ८:१० वादनपर्यन्तं बांद्रा-कुर्ला-कॉम्प्लेक्स-स्थिते होटल-सोफिटेल इत्यत्र आयोजिते विशेषकार्यक्रमे प्रदेशस्य नवकरणीय–ऊर्जा तथा ऊर्जा–भण्डारण–मार्गचित्रं इत्यस्मिन् केन्द्रितानां प्रस्तुतीकरणानां नेतृत्वं करिष्यति।

मुंबई-जलवायु–सप्ताह:-2026 इत्यस्मिन् मध्यप्रदेश–सर्वकारस्य प्रस्तुतीकरणेन एतत् प्रदर्शयिष्यते यत् प्रदेशः हरित–ऊर्जायाः सुलभता, विश्वसनीयता तथा निवेश–प्रतिस्पर्धासहितं सतत–विकासस्य दिशि अग्रसरः अस्ति।

जनसम्पर्क–अधिकारीणां कथनानुसारं, मुंबई-जलवायु–सप्ताह:-2026 इत्यस्य आयोजनं भारतदेशे जलवायु–सम्बद्ध–कार्यवाहीनां वेगवर्धनाय एकं केन्द्रित-राष्ट्रिय–मञ्च-रूपेण क्रियते। अस्मिन् मञ्चे राज्याणां जलवायु–सम्बद्ध–नवाचाराणां प्रस्तुतीकरणैः सह स्वच्छ–ऊर्जा–उत्पादनं तथा जलवायु–सम्बद्ध–मूल–परिस्थितिकी–तन्त्रे (बेसिक–इको–सिस्टम) हितधारकैः सह प्रत्यक्षसंवादोऽपि भविष्यति। अत्र देश–वैदेशीयाः नीतिनिर्मातारः, अन्ताराष्ट्रिय–विशेषज्ञाः, निवेशकाः तथा जलवायु–क्षेत्रेण सम्बद्धाः प्रायोगिक–विशेषज्ञाश्च सहभागं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता