Enter your Email Address to subscribe to our newsletters

कोलकाता, 18 फरवरीमासः (हि.स.)। पश्चिमबङ्गराज्ये विधानसभानिर्वाचनात् पूर्वं भारतीयजनतापक्षेण राज्यस्य सर्वासु २९४ विधानसभास्थानासु परिवर्तनयात्राया आयोजनस्य घोषणा कृता अस्ति। यात्रायाः समापनकाले कोलकातानगरस्य ब्रिगेडमैदाने प्रधानमन्त्रिणः विशालजनसभां आयोज्य निर्वाचनाभियानस्य उद्घोषणा कर्तुं पक्षः सज्जः अस्ति।
पक्षसूत्राणां अनुसारं मार्चमासस्य प्रथमसप्ताहे परिवर्तनयात्रायाः आरम्भः भविष्यति। केन्द्रीयगृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, देवेंद्रफडणवीसः, शिवराजसिंहचौहानः, नितिनगडकरी, स्मृतिइराणी च इत्यादयः वरिष्ठनेतारः राज्यं आगत्य विभिन्नयात्राणां उद्घाटनं करिष्यन्ति।
भारतीयजनतापक्षः कुलतः नव परिवर्तनयात्राः निष्कासयिष्यति, याः राज्यस्य सर्वाणि २९४ विधानसभाक्षेत्राणि व्याप्स्यन्ति। एकस्मिन् मार्चदिनाङ्के कूचबिहारदक्षिणात्, कृष्णानगरदक्षिणात्, कुल्टीतः, गढ़बेता, रायदीघी च पञ्च यात्राः आरभ्यन्ते। द्वितीयमार्चे इस्लामपुरात्, संदेशखालीतः, हासनात्, आमतात् च चत्वारः यात्राः प्रवर्तिष्यन्ते। होलिकोत्सवस्य कारणेन तृतीयचतुर्थमार्चदिनयोः कार्यक्रमः स्थगितः भविष्यति। अनन्तरं पञ्चममार्चात् यात्राः पुनरारभ्य दशममार्चपर्यन्तं चलिष्यन्ति। ततः ब्रिगेडमैदाने प्रधानमन्त्रिणः सभया सह अभियानस्य समापनं भविष्यति, यस्य तिथिः अनन्तरं घोषितुं निश्चितम्।
राज्याध्यक्षः शमिकभट्टाचार्यः उक्तवान् यत् अस्याः यात्रायाः माध्यमेन प्रायः पञ्चसहस्रकिलोमीटरपर्यन्तं दूरी अतिक्राम्यते। प्रत्येकयात्रायां सरासरि चतुःषष्टिः विशालसभाः त्रिशताधिकाः लघुसभाः च आयोजनीयाः सन्ति। पक्षस्य उद्देश्यं निर्वाचनस्य सम्भाव्याधिसूचनायाः पूर्वं समग्रराज्ये व्यापकजनसम्पर्काभियानं सञ्चालयित्वा वातावरणस्य निर्माणम्।
पक्षनेतारः वदन्ति यत् राज्ये परिवर्तनस्य आवश्यकता अस्ति, एषा यात्रा तस्यैव जनभावनायाः संगठनाय प्रयत्नः अस्ति। शमिकभट्टाचार्यः तृणमूलकाङ्ग्रेसपक्षं लक्ष्यीकृत्य अवदत् यत् वर्तमानराज्यसरकारे जनानां विश्वासः क्षीणः जातः, परिवर्तनं तु निश्चितम्।
अपरतः राज्यस्य उद्योगमन्त्री शशिपांजा इत्यनया प्रत्यारोपः कृतः यत् केन्द्रीयसरकारेण राज्यस्य द्विलक्षकोटिरूप्यकाणि अवशिष्टानि निधीनि निरुद्धानि सन्ति। सा अवदत् यत् प्रतिवर्षं द्विकोटिरोजगारप्रदानस्य तथा प्रत्येकनागरिकस्य बैंकखाते पञ्चदशलक्षरूप्यकाणां निक्षेपणस्य प्रतिज्ञाः न पूर्णीकृताः। तस्या मतानुसारं भारतीयजनतापक्षः अर्थबलं बाहुबलं च उपयुज्य वातावरणनिर्माणाय प्रयतते, किन्तु राज्यजनानां विश्वासः मुख्यमन्त्रिणि ममताबनर्जी इत्यस्यां एव स्थितः अस्ति।
वाममोर्चस्य पक्षतः अपि यात्रायाः आलोचना कृता। मार्क्सवादीकम्युनिष्टपक्षस्य केन्द्रीयसमितिसदस्यः सुजनचक्रवर्ती आरोपितवान् यत् यात्राः सांप्रदायिकविषयान् उद्दीपयितुं सीमिताः सन्ति, सामान्यजनानां आजीविकासम्बद्धप्रश्नेषु तेषां कश्चित् सरोकारः नास्ति।
राजनीतिविश्लेषकानां मतम् अस्ति यत् आगामिनिर्वाचनात् पूर्वं एषः व्यापकः अभियानः सत्तारूढपक्षं प्रति प्रत्यक्षचुनौतीकर्तुं रणनीतेः अंशः अस्ति। अधुना द्रष्टव्यं यत् परिवर्तनयात्रा प्रस्ताविता ब्रिगेडसभा च राज्यस्य निर्वाचनराजनीतौ कियत्प्रभावं जनयेताम्।
हिन्दुस्थान समाचार