Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्री सायः कृतः सम्मानितः, राज्यस्य नाम कीर्तितुं बर्धापनानि शुभकामनाश्च
रायपुरम् 18 फ़रवरीमासः (हि.स.)।
विष्णुदेव सायो मुख्यमन्त्री बुधवासरे मंत्रालयस्थिते महानदी भवन स्वकार्यालये सीडीएस परीक्षायां अखिलभारतीयचतुर्थस्थानं प्राप्तवतीं सुप्रिया ठाकुर इत्येतां मुंगेली जिल्लानिवासिनीं सम्मानितवान्। तेन सुप्रियायै तथा तस्याः परिवारजनभ्यः पुष्पगुच्छं समर्प्य अभिनन्दनं शुभाशंसां च प्रदत्तवान्।
मुख्यमन्त्री उक्तवान् यत् सुप्रियायाः सफलता एतत् सन्देशं ददाति—यदि लक्ष्यं स्पष्टं भवेत्, प्रयासाः च निष्कपटाः स्युः, तर्हि सामान्यपृष्ठभूमेः आगतः अपि युवा असाधारणसिद्धिं प्राप्तुं शक्नोति। तेन उक्तं यत् सुप्रियायाः अनुशासनं परिश्रमः राष्ट्रसेवायाः प्रति समर्पणं च राज्यस्य युवजनानां कृते प्रेरणास्रोतः अस्ति। युवानः सुप्रियायाः आदर्शं स्वीकृत्य स्वलक्ष्यप्राप्त्यर्थं प्रयत्नं कुर्वन्तु इति अपि तेन उक्तम्। अस्मिन् अवसरे मुंगेलीजिलाधिपः कुन्दनकुमारः अपि उपस्थितः आसीत्।
उल्लेखनीयम् यत् जिल्लस्य टेढाधौंरा ग्रामनिवासिनी त्रयोविंशतिवर्षीया सुप्रिया ठाकुर सीडीएस परीक्षायां अखिलभारतीयचतुर्थस्थानं प्राप्तवती, येन मुंगेलीजिलः सम्पूर्णराज्यं च राष्ट्रियस्तरे गौरवान्वितम् अभवत्। स्वप्रतिभया अनुशासनेन देशसेवायाः दृढसंकल्पेन च सा भारतीय सेना मध्ये लेफ्टिनेंट पदे चयनिता अभवत्। अस्याः गौरवपूर्णसिद्धेः निमित्तं मुख्यमन्त्रिणा तस्यै शुभकामनाः प्रदत्ताः।
साधारणपरिवेशात् असाधारणसिद्धिपर्यन्तम्
टेढाधौंरा ग्रामनिवासिनी सुप्रिया सिंह श्रीनेत कृषकपरिवारात् आगता अस्ति। तस्याः माता सन्तोषी सिंह श्रीनेत, पिता वैदेही शरण सिंह च, कृषिकर्मणि संलग्नौ स्तः, येन तस्यै शिक्षायाः संस्काराणां च दृढाधारः प्रदत्तः। सा स्नेहपूर्णे अनुशासिते च वातावरणे वर्धिता। प्रारम्भिकशिक्षां सा सेंट जोसेफ उच्चतरमाध्यमिकविद्यालये प्राप्तवती। दशम्यां कक्षायां ७१ प्रतिशतं द्वादश्यां कक्षायां ५८ प्रतिशतं च अङ्कान् अर्जितवती। अनन्तरं सा बीटेक् इलेक्ट्रॉनिक्स् तथा टेलीकम्युनिकेशन इत्यस्मिन् विषयक्षेत्रे स्नातकपदवीं प्राप्तवती।
अभियान्त्रिकीअध्ययनकाले एव सा राष्ट्रिय कैडेट कोर इत्यस्मिन् संस्थायां सम्मिलिता, स्वनेतृत्वकौशलेन च कनिष्ठअण्डरऑफिसर पदं प्राप्तवती। एनसीसी प्रशिक्षणेन तस्याः अनुशासनं साहसं राष्ट्रभक्तिभावना च सुदृढा अभवत्। तस्मात् एव भारतीयसेनायां अधिकारीभवितुं तस्याः संकल्पः दृढीकृतः।
दृढसंकल्पस्य अथकपरिश्रमस्य च फलम्
२०२३ वर्षे अभियान्त्रिकीअध्ययनं समाप्य सुप्रियया पूर्णैकाग्रतया सीडीएस परीक्षायाः तयारी आरब्धा। कठोरपरिश्रमेण नियमिताभ्यासेन आत्मविश्वासेन च सा शॉर्ट सर्विस कमिशन अन्तर्गतं आयोजिते एसएसबी साक्षात्कारस्य उत्तमं प्रदर्शनं कृत्वा अखिलभारतीयचतुर्थस्थानं प्राप्तवती। एषा सिद्धिः केवलं व्यक्तिगतसफलता न, अपितु ग्रामीणप्रदेशीयानां कन्यकानां कृते नवीनसंभावनानां द्वारं उद्घाटयन्ती प्रेरणादायिनी कथा अस्ति।
शैक्षणिकसैन्यसिद्धिभिः सह सुप्रिया सांस्कृतिकक्रियासु अपि सक्रियाभूत्। नृत्यं तस्याः प्रमुखा रुचिः अस्ति, यत् तस्याः व्यक्तित्वे ऊर्जां आत्मविश्वासं च संवर्धयति। सुप्रिया सिंह श्रीनेत इत्यस्याः एषा सफलता न केवलं मुंगेलीजिलस्य, अपितु समग्रराज्यस्य अपि गौरवविषयः अस्ति।
---------------
हिन्दुस्थान समाचार