विशिष्टेन अभिषेकेन सह श्रद्धालुभ्यः उद्घटितस्य विष्णुपुरस्य सांडेश्वरमंदिरम्
विष्णुपुरम्, 18 फरवरीमासः (हि.स.)। बांकुड़ाजनपदस्य ऐतिहासिके विष्णुपुरनगरे स्थिते प्राचीनसाण्डेश्वरशिवमन्दिरे प्रायः षड्वर्षीयदीर्घविरामानन्तरं बुधवासरे विशेषानुष्ठानानां प्रारम्भेन भक्तानां प्रतीक्षा समाप्ता अभवत्। “जय बाबा साण्डेश्वर” “हर हर मह
विष्णुपुर स्थित प्रसिद्ध बाबा सांडेश्वर शिव मंदिर में विशेष अनुष्ठानों की शुरुआत


विष्णुपुर स्थित प्रसिद्ध बाबा सांडेश्वर शिव मंदिर में विशेष अनुष्ठानों की शुरुआत


विष्णुपुर स्थित प्रसिद्ध बाबा सांडेश्वर शिव मंदिर में विशेष अनुष्ठानों की शुरुआत


महिलाओं का पूजा में लगी कतारें


महिलाओं का पूजा में yogdan


विष्णुपुर मंदिर में विशेष पूजन सामग्री लेकर महिलाएं


विष्णुपुरम्, 18 फरवरीमासः (हि.स.)।

बांकुड़ाजनपदस्य ऐतिहासिके विष्णुपुरनगरे स्थिते प्राचीनसाण्डेश्वरशिवमन्दिरे प्रायः षड्वर्षीयदीर्घविरामानन्तरं बुधवासरे विशेषानुष्ठानानां प्रारम्भेन भक्तानां प्रतीक्षा समाप्ता अभवत्। “जय बाबा साण्डेश्वर” “हर हर महादेव” इति घोषैः समग्रः प्रदेशः भक्तिमयः अभवत्।

मन्दिरस्य दीर्घकालपर्यन्तं निरुद्धत्वस्य मुख्यकारणं भारतीयपुरातत्त्वसर्वेक्षणेन कृतं व्यापकसंरक्षणजीर्णोद्धारकार्यं आसीत्। मन्दिरस्य प्राचीनलेटराइटशिलानिर्मिता संरचना कालक्रमेण क्षतिग्रस्ता जाता, अधःस्थिताया नीवेः अवसादेन च आधारशीलायाः संकटः उत्पन्नः अभवत्।

सूत्राणां अनुसारं २०१९–२० वर्षयोः मध्ये कोलकातामण्डलेन मन्दिरस्य स्थैर्यं सुनिश्चितुं वैज्ञानिकपद्धत्या संरक्षणकार्यं प्रारब्धम्। तन्त्रविशेषज्ञाणां निरीक्षणे मन्दिरं सावधानीपूर्वकं विखण्डितम्, शिलाखण्डाः चिह्निताः, नवी सुदृढा नीविः स्थापिता, अनन्तरं मूलस्वरूपे एव पुनः प्रतिष्ठापितम्। नदीतीरसमिपे स्थितत्वात् नीविः विशेषतः दृढीकृता।

जीर्णोद्धारकार्यकाले गाजनादिषु पारम्परिकोत्सवेषु सीमितरूपेण पूजायाः अनुमतिः आसीत्। अधुना संरक्षणकार्यस्य सम्पन्नतायाः अनन्तरं मन्दिरं पुनः श्रद्धालुभ्यः उद्घाटितम्।

इतिहासविदां मतानुसारं साण्डेश्वरमन्दिरस्य इतिहासः प्रायः सहस्रवर्षपुरातनः मन्यते। एतत् मन्दिरं मल्लराजवंशस्य प्रारम्भिककालसम्बद्धम्, दशमैकादशशताब्द्योः मध्ये अस्य स्थापना अभवत् इति प्रसिद्धम्। विष्णुपुरस्य प्रसिद्धटेराकोटाशैल्याः भिन्नम् इदं मन्दिरं लेटराइटशिलाभिः निर्मितम् अस्ति, येन एतत् अधिकप्राचीनं विशिष्टं च दृश्यते। स्थानिकमान्यता अस्ति यत् बाबा साण्डेश्वरः क्षेत्रस्य रक्षकदेवता, सांस्कृतिकपहचानस्य प्रतीकः च अस्ति।

बुधवासरे विशेषतिथौ अभिषेकः, रुद्रपाठः, महाभोगस्य आयोजनं च कृतम्। प्रातःकालात् एव महिलाश्रद्धालूनां दीर्घाः पङ्क्तयः दृश्यन्ते स्म। अनेके भक्ताः प्रथमं द्वारकेश्वरनदीस्नानं कृत्वा पूजाम् अकरोत्, अनन्तरं मन्दिरं गत्वा भगवान्शिवस्य जलाभिषेकं कृतवन्तः।

मन्दिरस्य मुख्यपूजारी अवदत् यत् विशेषाभिषेकमहाभोगयोः आयोजनं दीर्घकालीनया श्रद्धालूनां याचनया अनुकूलं कृतम्। कार्यक्रमे स्थानिकलोकपरम्परायाः गाजनउत्सवस्य च दृश्यम् अपि दृश्यते स्म, येन धार्मिकवातावरणे सांस्कृतिकरङ्गः समन्वितः।

श्रद्धालूनां महती संमर्दं दृष्ट्वा प्रशासनस्य मन्दिरसमितेः च पक्षतः सुदृढाः सुरक्षाव्यवस्थाः कृताः। पुलिसबलं स्वयंसेवकाः च सर्वत्र नियुक्ताः सन्ति। मन्दिरपरिसरस्य समीपे अस्थायीविपणीपंक्तयः स्थापिताः, येन मेलादृश्यं जातम्, स्थानिकवणिजां मध्ये अपि उत्साहः वर्धितः।

स्थानिकनिवासी हरिपाललोधः उक्तवान् यत् बाबा साण्डेश्वरस्य महिमा अपरम्पारा अस्ति, बहुवर्षानन्तरं मन्दिरद्वारोद्घाटनं क्षेत्रवासिनां कृते अत्यन्तं भावनात्मकक्षणः अस्ति। सायंकालपर्यन्तं भजनकीर्तनपूजार्चनादिकं प्रवर्तिष्यते इति सम्भावना वर्तते।

---------------

हिन्दुस्थान समाचार