Enter your Email Address to subscribe to our newsletters

—हरिश्चंद्रबालिकामहाविद्यालये मैदागिने छात्रासु पुष्पवर्षा, मुखं मधुरं कारितम्
वाराणसी,18 फरवरीमासः (हि.स.)।उत्तरप्रदेशमाध्यमिकशिक्षापरिषदः अधीनाः मण्डलपरीक्षाः बुधवासरात् कठोरसुरक्षाव्यवस्थायाः मध्ये आरब्धाः। प्रथमदिने हिन्दीविषयस्य परीक्षा सम्पन्ना अभवत्। परीक्षारम्भात् पूर्वं प्रातःकाले परीक्षाकेन्द्रेषु उत्साहपूर्णं वातावरणं दृष्टम्, यत्र परीक्षा दातुं आगताः छात्राः उत्सववत् सत्कारं प्राप्तवन्त्यः।
मैदागिनप्रदेशे स्थिते हरिश्चन्द्रबालिकाइन्टरकालेजे आगतासु परीक्षार्थिनिषु महाविद्यालयस्य प्रधानाचार्या शिक्षिकाश्च पुष्पवर्षां कृतवन्त्यः, मिठाई अपि प्रदत्ता। प्रधानाचार्या डा० प्रियंका तिवारी उक्तवती यत् छात्राणां मनसः परीक्षातनावं निवारयितुं विशेषव्यवस्थाः कृताः आसन्। यथा एव छात्राः केन्द्रं प्राप्तवन्त्यः, तथैव तासां उपरि पुष्पवर्षा कृता। भारतीयपरम्परानुसारं सर्वासां परीक्षार्थिनां तिलकं कृतम्, मिठाई प्रदाय तासां मुखं मधुरं कृतम्।
सा अवदत् यत् उच्चविद्यालयस्तरस्य छात्राणां कृते एषा जीवनस्य प्रथमा महती मण्डलपरीक्षा भवति। तासां मनसि कश्चिदपि भयः वा दबावः न भवेत्, अतः अस्य आत्मीयस्वागतस्य योजना कृता, येन ताः प्रसन्नचित्ताः सकारात्मकऊर्जया सह परीक्षा दातुं शक्नुयुः। विद्यालये परीक्षाशुचितां रक्षितुं प्रशासनं विद्यालयप्रबन्धनं च पूर्णतया सतर्कम् अस्ति।
जिलाविद्यालयनिरीक्षकः भोलेन्द्रप्रतापसिंहः अवदत् यत् मण्डलपरीक्षाः अद्य आरब्धाः। द्वादशमार्चपर्यन्तं प्रवर्तमानेषु एतेषु परीक्षासु वाराणसीजिले कुलं ११७ परीक्षाकेन्द्राणि निर्मितानि। अस्मिन् वर्षे उच्चविद्यालये ४६३०० तथा इण्टरमीडिएट इत्यस्मिन् स्तरे ४५९७७, एवं समग्रतः ९२२७७ परीक्षार्थिनः पञ्जीकृताः सन्ति।
तेन उक्तम् यत् परीक्षासु नकलदुराचारिणां प्रति तीक्ष्णदृष्टिः धार्यते। सर्वे परीक्षाकेन्द्राः सीसीटीवी निरीक्षणव्यवस्थायां स्थापिताः सन्ति। क्वीन्समहाविद्यालयस्य स्थापितात् नियन्त्रणकेन्द्रात् सर्वेषां केन्द्राणां पर्यवेक्षणं क्रियते। व्यवस्थायाः निरीक्षणार्थं जिलायाः द्वादश क्षेत्रेषु अष्टसु जोनेषु च विभाजनं कृतम्। तदनुसारं १२ क्षेत्रीयाधिकारिणः ८ खंडीयाधिकारिणश्च नियुक्ताः। अतिरिक्तं राजकीयक्वीन्समहाविद्यालये नियन्त्रणकक्षः अपि स्थापितः अस्ति। परीक्षासम्बन्धे शिवपुरस्थितकेन्द्रीयकारागारे अपि एकं परीक्षाकेन्द्रं निर्मितम् इति अपि सूचितम्।
हिन्दुस्थान समाचार