Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १८ फरवरीमास: (हि.स.)। ग्रामीणविकासमन्त्री किरोडीलालमीणा बुधवासरे विधानसभायां अवदत् यत् विधायक–स्थानीय–क्षेत्र–विकास–योजनायाः अन्तर्गतं संस्थाभिः अथवा न्यासैः सामाजिक–सेवा–कल्याणकारी–क्रियाभिः सम्बद्धानि निर्माण–कार्याणि कार्यन्ते। सः स्पष्टतया उक्तवान् यत् अस्याः योजनायाः मुख्योद्देश्यं पूँजीगत–स्वरूपाणां विकासात्मक–निर्माण–कार्याणां प्रोत्साहनकरणं अस्ति, येन क्षेत्रीय–विकासे विद्यमानम् असन्तुलनं निवारयितुं शक्येत।
डा.मीणा शून्यकाले विधायकेन रतनदेवासीना प्रस्तुतस्य ध्यानाकर्षण–प्रस्तावस्य उत्तरं प्रयच्छत्। तेन उक्तं यत् राज्य–सर्वकारेण २०२५–२६ वित्तविवरण–वर्षस्य अनुपालने अस्याः योजनायाः राशिः १० लक्ष–रूप्यकात् वर्धयित्वा २५ लक्ष–रूप्यकं कृतम् अस्ति। ग्रामीणविकासमन्त्री सभां सूचितवान् यत् ‘विधायक–स्थानीय–निधेः’ माध्यमेन महापुरुषाणां तथा समाज–सुधारकाणां प्रतिमानां स्थापनाविषये सदस्यानां अधिकारिणां च सहभागितया समिति: गठिता भविष्यति। कश्चन विधायकः एकमासस्य अन्तर्गतं स्वान् विचारान् विभागाय प्रेषयितुं शक्नोति; तान् समिति: विचारयिष्यति।
सः अवदत् यत् अस्या निधेः निर्मिताः परिसम्पत्तयः राज्य–सर्वकारस्य स्वामित्वे तिष्ठन्ति, तथा जाति–धर्म–वर्ग–भेदभावं विना सर्वेषां नागरिकाणां उपयोगाय भविष्यन्ति। अपि च, योजनाकाले कस्यचित् न्यासस्य अथवा गैर–सर्वकारी–संस्थायाः अधिकतमं २५ लक्ष–रूप्यक–पर्यन्तं कार्य–स्वीकृतिः दातुं शक्नोति।
हिन्दुस्थान समाचार / अंशु गुप्ता