Enter your Email Address to subscribe to our newsletters


भीलवाड़ा, 18 फरवरीमासः (हि.स.)।
राजस्थानराज्यस्य भीलवाड़ानगरे स्थिते हरिसेवा उदासीन आश्रम सनातनमन्दिरे १९ फरवरीतः २६ फरवरीपर्यन्तम् अष्टदिवसीयः “सनातनमङ्गलमहोत्सवः” दीक्षादानसमारोहश्च आयोज्यते। अस्मिन् कार्यक्रमे आश्रमे निवसन्तः त्रयः ब्रह्मचारिणः—इन्द्रदेवः, सिद्धार्थः, कुनालः—इत्येतेषां २६ फरवरीदिने विधिपूर्वकं दीक्षा प्रदास्यते।
आश्रमस्य महन्तः महामण्डलेश्वरः स्वामी हंसराम उदासीन महाराजः अवदत् यत् अस्य आयोजनस्य उद्देश्यं सनातनपरम्परासम्बद्धान् जनान् एकस्मिन् मंचे संयोजयितुम् अस्ति। तेन उक्तं यत् यज्ञे सहभागीभ्यः प्रत्येकस्मात् यजमानात् एकं श्रीफलम् एकं रुप्यकमात्रां दक्षिणां च ग्राह्यते। श्रद्धालूनां कृते समानवेशभूषायाः व्यवस्था आश्रमपक्षतः करिष्यते। महोत्सवस्य शुभारम्भः १९ फरवरीदिने श्रीमद्भागवतकलेशयात्रया भविष्यति। एषा यात्रा संकटमोचनहनुमानमन्दिरात्, यत् डाकघरस्य सम्मुखे स्थितम् अस्ति, आरभ्य आश्रमपरिसरं प्राप्स्यति।
१९ फरवरीतः २५ फरवरीपर्यन्तं वृन्दावनस्थितः कथाव्यासः डा० श्यामसुन्दर पाराशरः प्रतिदिनं श्रीमद्भागवतकथायाः वाचनं करिष्यति। अस्मिन् काले पञ्चकुण्डीयः श्रीविष्णुमहायज्ञः, अष्टोत्तरशतभागवतमूलपाठः, अखण्डश्रीमद्भगवद्गीतापाठः, रामचरितमानसपाठः, रामनामसंकीर्तनं, वेदपारायणम् इत्यादयः धार्मिकानुष्ठानाः अपि भविष्यन्ति। आयोजनस्य अन्तर्गतं प्रतिदिनं सायंकाले गङ्गाआरती तथा वृन्दावनस्य मण्डल्या रासलीलानाट्यस्य मंचनं करिष्यते।
२५ फरवरीदिने सन्तदर्शनं शोभायात्रा च निष्कास्यते, २६ फरवरीदिने तु मुख्यः दीक्षादानसमारोहः आयोज्यते। अस्मिन् कार्यक्रमे विभिन्नपीठाश्रमसम्बद्धाः सन्तः सहभागी भविष्यन्ति इति सम्भावना अस्ति। आश्रमप्रबन्धनस्य अनुसारं राष्ट्रपतिः, प्रधानमन्त्री, विभिन्नराज्यानां मुख्यमन्त्रिणः च अपि निमन्त्रणं प्रेषितम् अस्ति। आयोजनसम्बन्धे भण्डारव्यवस्था, निवासव्यवस्था, जलविद्युत्सुरक्षाव्यवस्था इत्यादीनां कृते पृथक् समितयः गठिताः सन्ति। महोत्सवकाले प्रतिदिनं बहुसंख्यकाः श्रद्धालवः आगमिष्यन्ति इति अपेक्षा व्यक्ता।
---------------
हिन्दुस्थान समाचार