मुख्यमन्त्री हेमन्तसोरेनः धनबादनगरं प्राप्य दिवंगतं डॉ०बुद्धदेवमहतोम् भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्
धनबादनगरम्, १९ फरवरीमासः (हि.स.)। हेमन्तसोरेनः तस्य धर्मपत्नी कल्पनासोरेन: च गुरुवासरे धनबाद–नगरे बलियापुर–स्थिते (बड़ादाहा) पूर्व–विधायकस्य आनंदमहतो-इत्यस्य निवासं प्राप्तवन्तौ। तत्र मुख्यमन्त्रिण: पूर्व–विधायकस्य आनन्द–महतोः दिवंगत–सुपुत्रस्य डॉ०
फाइल फोटो


धनबादनगरम्, १९ फरवरीमासः (हि.स.)। हेमन्तसोरेनः तस्य धर्मपत्नी कल्पनासोरेन: च गुरुवासरे धनबाद–नगरे बलियापुर–स्थिते (बड़ादाहा) पूर्व–विधायकस्य आनंदमहतो-इत्यस्य निवासं प्राप्तवन्तौ। तत्र मुख्यमन्त्रिण: पूर्व–विधायकस्य आनन्द–महतोः दिवंगत–सुपुत्रस्य डॉ०बुद्धदेव–महतोः श्राद्ध–कार्यक्रमे सहभागी अभवत्।

मुख्यमन्त्री हेमन्त–सोरेनः दिवंगतस्य डॉ०बुद्धदेव–महतोः छायाचित्रे पुष्पाणि अर्पयित्वा भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्, तथा ईश्वरं प्रति प्रार्थनां कृतवान् यत् दिवंगत–आत्मनः शान्तिः भवतु, शोकसन्तप्त–परिजनेभ्यश्च एतत् दुःखं सोढुं शक्तिः प्रदीयताम्।

विधायिका कल्पना–सोरेनापि दिवंगतस्य डॉ०बुद्धदेव–महतोः छायाचित्रे पुष्पार्पणं कृत्वा श्रद्धाञ्जलिं दत्तवती। मुख्यमन्त्री हेमन्त–सोरेनः तथा विधायिका कल्पना–सोरेनः पूर्व–विधायकं आनन्द–महतोम् इत्यस्य परिजनै: सह मिलित्वा गभीराः संवेदनाः व्यक्तवन्तौ तथा तेषां धैर्यवर्धनं कृतवन्तौ।

हिन्दुस्थान समाचार / अंशु गुप्ता