केशव प्रसाद मौर्यश्छत्रपतेः शिवाजी महाराजस्य   जयंत्यां कृतं  माल्यार्पणम्
लखनऊ, 19 फ़रवरीमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव प्रसाद मौर्यो गुरुवासरे स्वीयकैंपकार्यालये कालिदासमार्गे छत्रपति शिवाजी महाराज तथा माधव सदाशिव राव गोलवलकर इत्येतयोः जयन्त्याः अवसरॆ तयोः चित्रयोः पुष्पाञ्जलिं समर्प्य श्रद्धासुमनानि
शिवा जी के चित्र पर माल्यार्पण करते केशव प्रसाद मौर्य


लखनऊ, 19 फ़रवरीमासः (हि.स.)।

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव प्रसाद मौर्यो गुरुवासरे स्वीयकैंपकार्यालये कालिदासमार्गे छत्रपति शिवाजी महाराज तथा माधव सदाशिव राव गोलवलकर इत्येतयोः जयन्त्याः अवसरॆ तयोः चित्रयोः पुष्पाञ्जलिं समर्प्य श्रद्धासुमनानि अर्पितवान्।

अस्मिन् अवसरे सः शिवाजीमहाराजस्य जीवनदर्शनं संघर्षयात्रां च प्रकाशयन् उक्तवान् यत् सः पराक्रमी योद्धा कुशलः प्रशासकश्च आसीत्। अदम्यसाहसशौर्यपराक्रमाणां प्रतीकः शिवाजीमहाराजः इति निर्दिश्य तस्य त्यागसमर्पणाभ्यां देशवासिनः सदा प्रेरिताः भविष्यन्ति इति अवदत्।

केशवप्रसादमौर्यः माधव सदाशिव राव गोलवलकरस्य जयन्त्याः अवसरे अपि तस्य जीवनदर्शनं विवृतवान्। तस्य समग्रजीवनं राष्ट्रसेवायै संगठननिर्माणाय सांस्कृतिकपुनर्जागरणाय च समर्पितम् आसीत्, यत् अद्यापि सर्वेषां प्रेरणास्रोतः अस्ति इति तेन उक्तम्।

---------------

हिन्दुस्थान समाचार