Enter your Email Address to subscribe to our newsletters

– ट्राइडेंटसमूहः, बुधनी ३००० युवतीनां नियुक्तिं करिष्यति
सीहोरनगरम्, १९ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य सीहोर-जनपदे यूनां रोजगार-स्वरोजगार-अवसरान् उपलब्धयितुं अद्य गुरुवासरे डॉ.अम्बेडकर-शासकीय- महिला-औद्योगिक-प्रशिक्षण-संस्थायाम् प्रातः एकादश-वादनात् युवा-संगमरोजगारस्य, स्वरोजगारस्य कार्याधारित-प्रशिक्षणकार्यक्रमस्य मेलापकः आयोज्यते।
जनपद-प्रशासनस्य सूचनानुसारं अस्मिन् रोजगार-मेलापके रोजगार-विभागेन स्थानीयाः, प्रादेशिकाः तथा अन्य-राज्येषां निर्माण्यः आमन्त्रिताः सन्ति, येन युवभ्यः रोजगारः प्रदीयते। अस्मिन् मेलापके वर्धमान-फेब्रिक्स, ट्राइडेंट-समूहः, आयशर-निर्माणी, एचडीएफसी-धनागारः, श्रीराम-फाइनेंस, स्वर्णा-फर्टिलाइज़र, एसबीआई-लाइफ, पुष्पक-एग्रोटेक, एमआरएफ-लिमिटेड इत्यादेभिः सह १९ निर्माण्यः प्रायः १३६६ पदेषु यूनां नियुक्तिं करिष्यन्ति।
जनपद-व्यापार-उद्योग-केन्द्रेण स्वरोजगार-विभागेषु पञ्जीकृतानां हितग्राहिणां लाभान्वयनं करिष्यते तथा नूतनानि प्रकरणानि अपि सज्जीकर्तुं व्यवस्था भविष्यति। तदनन्तरं आईटीआई-विभागेन कार्याधारित-प्रशिक्षणाय युवानः चयनिताः करिष्यन्ते। इच्छुकाः आवेदकाः १९ फरवरी-दिने स्वीयैः सर्वैः मूल-प्रमाणपत्रैः सह रोजगार-मेलापके उपस्थिताः भवितुं शक्नुवन्ति।
विशेषतया सूचितं यत् रोजगार-मेलापके ट्राइडेंट-समूह-बुधनी द्वारा प्रायः ३००० युवतीनां निःशुल्का नियुक्तिः करिष्यते। पात्रता—दशमी-द्वादशी तथा आईटीआई-उत्तीर्णा; आयु-सीमा—अष्टादश-वर्षात् पञ्चविंशति-वर्षपर्यन्तम्।
चयनिताभ्यर्थिन्यः प्रतिमासं आरम्भिक-स्टाइपेण्ड्-रूपेण १८,००० रूप्यकाणि लप्स्यन्ते, यत् अनुभवानुसारं वर्धित्वा ५०,००० रूप्यकाणि यावत् भविष्यति। इच्छुकाः युवत्यः स्वीयैः समस्तैः मूल-शैक्षणिक-प्रमाणपत्रैः सह मेलापके उपस्थिताः भवितुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता