Enter your Email Address to subscribe to our newsletters

रायपुरम् 19 फ़रवरीमासः(हि.स.)।
रङ्गोत्सवस्य होलीपर्वणः अवसरे पर्यावरणस्य स्वास्थ्यस्य च संरक्षणं मनसि निधाय प्रकृति की ओर सोसाइटी द्वारा हर्बल् गुलालस्य निर्माणस्य सरलविधेः विषये विशेषकार्यशालायाः आयोजनं क्रियते।
अस्यां कार्यशालायां डॉ. नारायण साहू अधिष्ठाता वरिष्ठवैज्ञानिकश्च महात्मा गांधी उद्यानिकी एवं वानिकी विश्वविद्यालय दुर्ग इत्यस्य मुख्यवक्ता रूपेण उपस्थितः भविष्यति। तथा रूना शर्मा सौन्दर्यविशेषज्ञा अभिनेत्री समाजसेविका च वक्त्रीरूपेण सहभागिनी भविष्यति।
प्रकृतिकीओरसोसाइटी अध्यक्षः मोहन वर्ल्यानी तथा सचिवः निर्भय धाडीवाल उक्तवन्तौ यत् होली उत्साहेन क्रीडनीया, किन्तु सावधानतया। परिवर्तमाने काले होलीरङ्गाः अपि परिवर्तिताः सन्ति। प्राकृतिकरङ्गाः दुर्लभाः भवन्ति, कृत्रिमरङ्गेषु रासायनिकद्रव्याणां मिश्रणं वर्धते। एते गुलालरङ्गाः त्वचायाः नेत्रयोः च व्रणान् उत्पादयन्ति, दृष्टेः अपि हानिं कर्तुं शक्नुवन्ति। गुलालधूलिः दमा श्वासरोग त्वकरोगादीन् जनयति। एतत् स्वास्थ्यस्य गम्भीरविषयः अस्ति।
अस्मिन् परिप्रेक्ष्ये प्रकृतिकीओरसोसाइटी जनसामान्यस्य स्वास्थ्यं मनसि निधाय सैनिककल्याणभवने निःशुल्कं “जीवन्तहर्बलगुलालस्य सजीवप्रदर्शनं प्रशिक्षणं च” प्रदास्यति।
---------------
हिन्दुस्थान समाचार