Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणः प्रस्तावितः प्रवासः भारत–जापान–सहयोगस्य व्यापक–परिप्रेक्ष्ये अपि अवलोक्यते
पट्टिकात: उपरि वायौ उत्प्लुत्य धावमानस्य रेलयानस्य अनुभवं करिष्यति; १०० कि.मी. परीक्षण–यात्रायां सम्मिलितो भविष्यति मुख्यमन्त्री योगी
लखनऊनगरम्, १९ फरवरीमासः (हि.स.)। जापान–देशस्य अत्याधुनिका मैग्लेव–रेलयान–प्रणाली (चुम्बकीय–उत्प्लवन–आधारिता), या चुम्बकीय–शक्त्या पट्टिकात् उपरि वायौ उत्प्लुत्य गच्छति, योगी-आदित्यनाथस्य जापान–प्रवासस्य प्रमुखं आकर्षणं भविष्यति। मुख्यमन्त्री स्वीय–जापान–यात्राकाले अस्यां उच्च–वेग–रेलयाने १००–कि.मी.–परिमितां परीक्षण–यात्रां करिष्यति—यत्र ५०–कि.मी. गमनं ५०–कि.मी. च प्रत्यागमनं भविष्यति।
मैग्लेव–रेलयानं आधुनिक–परिवहनस्य भविष्यत्–स्वरूपं मन्यते। चुम्बकीय–प्रौद्योगिक्या रेलयान–मार्गयोः प्रत्यक्ष–सम्पर्कः निवार्यते, येन घर्षणं प्रायः शून्यं भवति; अनेनैव कारणेन एषा रेलयान–प्रणाली प्रतिहोरा ६००–कि.मी.–अधिकं वेगं साधयितुं समर्था अस्ति। जापान–देशे टोक्यो–नागोया–नगरयोः मध्ये मैग्लेव–मार्गस्य २०२७–वर्षपर्यन्तं आरम्भार्थं शीघ्रतया कार्यं प्रचलति, येन द्वयोः नगरयोः यात्राकालं अर्धात् अपि न्यूनः भविष्यति।
मुख्यमन्त्रिणः योगी–आदित्यनाथस्य एषः प्रवासः केवलं तन्त्र–जिज्ञासायाः परिधौ न सीमितः, अपि तु उत्तर–प्रदेशे आधुनिक–परिवहन–संरचनायाः विस्तार–दृष्ट्या अपि महत्त्वपूर्णः मन्यते। प्रदेशे पूर्वमेव द्रुतमार्गाः (एक्सप्रेसवे), मेट्रो–प्रणाल्यः तथा क्षेत्रीय–द्रुत–परिवहन–प्रणाल्यः (RRTS) इत्यादिभिः गतिशील–अवसंरचना: विकसिताः सन्ति। तस्मात् मैग्लेव–इव भविष्य–प्रौद्योगिक्याः प्रत्यक्षानुभवः नीति–निर्माणे दीर्घकालिक–योजनासु च उपयोगी इति मन्यते।
जापानी–विशेषज्ञैः उक्तं यत् अस्यां रेलयान–प्रणाल्यां सुपरकण्डक्टिङ्ग–चुम्बकाः तथा अत्याधुनिका मार्ग–नियन्त्रण–व्यवस्था (गाइडवे–सिस्टम) उपयुज्यन्ते, ये उच्च–वेगेन सह स्थैर्यं सुरक्षिततां च प्रददति।
अधुना परीक्षण–चरणे सञ्चालिता एषा रेलयान–प्रणाली जापान–देशस्य तान्त्रिक–क्षमतायाः नवाचारस्य च उत्कृष्टा दृष्टान्ता मन्यते। मुख्यमन्त्रिणः प्रस्तावितः प्रवासः भारत–जापान–सहयोगस्य व्यापक–परिप्रेक्ष्ये अपि द्रष्टव्यः। उच्च–वेग–रेल, स्मार्ट–मोबिलिटी तथा सतत–परिवहन–क्षेत्रेषु सहकार्येण उत्तर–प्रदेशेन सह देशस्य परिवहन–जालं नूतनां दिशां प्राप्स्यतीति सम्भावना व्यक्ता भवति।
अतः जापान–देशस्य मैग्लेव–रेलयाने मुख्यमन्त्रिणः योगी–आदित्यनाथस्य एषः प्रवासः केवलं तान्त्रिक–प्रगत्यानुभवः न भविष्यति, अपि तु शीघ्र–सुरक्षित–पर्यावरण–अनुकूल–परिवहन–व्यवस्थायाः भावी–चित्रस्य सन्निकट–दर्शनस्य अवसरं अपि प्रदास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता