शिवाजी महाराज सनातन संस्कृतेः अप्रतिम रक्षको, राष्ट्रधर्मस्य उपासकः -योगी आदित्यनाथः
लखनऊ, 19 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो गुरुवासरे छत्रपतेः शिवाजी महाराजस्य जयन्त्याः अवसरे तं नत्वा श्रद्धाञ्जलिं समर्पितवान्। स्वीयसामाजिकमाध्यममञ्चे एक्स इत्यत्र लिखित्वा शिवाजीमहाराजं सनातनसंस्कृतेः रक्षकं इति
मुख्यमंत्री योगी


लखनऊ, 19 फरवरीमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो गुरुवासरे छत्रपतेः शिवाजी महाराजस्य जयन्त्याः अवसरे तं नत्वा श्रद्धाञ्जलिं समर्पितवान्। स्वीयसामाजिकमाध्यममञ्चे एक्स इत्यत्र लिखित्वा शिवाजीमहाराजं सनातनसंस्कृतेः रक्षकं इति निर्दिष्टवान्।

मुख्यमन्त्री योगी अवदत् यत् सनातनसंस्कृतेः अप्रतिमरक्षकं राष्ट्रधर्मोपासकं ‘हिंदवीस्वराज्य’ संस्थापकं छत्रपति शिवाजी महाराजं प्रति कोटिशः नमनम्। तस्य त्यागः पराक्रमः स्वाभिमानः राष्ट्रभक्तिः च अमिटगाथारूपेण युगयुगान्तरपर्यन्तं सर्वान् प्रेरयिष्यति।

---------------

हिन्दुस्थान समाचार