Enter your Email Address to subscribe to our newsletters

लखनऊ, 19 फरवरीमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठको गुरुवासरे स्वीयसरकारीनिवासे १०१ बटुकानां सम्मानं कृतवान्। उपमुख्यमन्त्री स्वपत्नी नम्रता पाठक सह आगतानां १०१ बटुकानां ललाटे तिलकं विधाय पुष्पवृष्ट्या च तान् सम्मानितवान्। बटुकेभ्यः आशीर्वादम् अपि प्राप्तवान्।
उल्लेखनीयम् यत् द्विदिनपूर्वं ब्रजेशपाठकः एका समाचारवाहिन्या सह संवादे प्रयागराजघटनायां शिखाखेचनं पापम् इति उक्तवान् आसीत्। तदनन्तरम् अद्य तेन बटुकानां सम्माननं कृतम्।
---------------
हिन्दुस्थान समाचार