चारधाम-यात्रायाम् ‘अतिथि देवो भवः’ गति भावेन स्वागतं भविष्यति
देहरादूननगरम्, १९ फरवरीमासः (हि.स.)। अस्मिन् वर्षे चारधाम–यात्रा सरलां, सुगमां सुरक्षितां च कर्तुं देहरादून–जनपद–प्रशासनेन तीव्रतया पूर्वसज्जा: आरब्धवा:। जनपदाधिकारिणा यात्रां सेवा–आतिथ्ययोः अवसरम् इति निर्दिश्य सर्वेषां विभागानां परस्पर–समन्वयेन क
देहरादून जिलाधिकारी बैठक करते हुए।


देहरादूननगरम्, १९ फरवरीमासः (हि.स.)। अस्मिन् वर्षे चारधाम–यात्रा सरलां, सुगमां सुरक्षितां च कर्तुं देहरादून–जनपद–प्रशासनेन तीव्रतया पूर्वसज्जा: आरब्धवा:। जनपदाधिकारिणा यात्रां सेवा–आतिथ्ययोः अवसरम् इति निर्दिश्य सर्वेषां विभागानां परस्पर–समन्वयेन कार्यकरणस्य निर्देशाः दत्ताः।

जनपदाधिकारी सविन–बंसलः गुरुवासरे सम्बन्धित–विभागानां अधिकारिभिः सह सभां कृत्वा यात्रा–व्यवस्थाः समीक्षितवान्, तथा च १५ एप्रिल–दिनाङ्कपर्यन्तं सर्वाः सज्जा: पूर्णाः कर्तुं निर्देशान् दत्तवान्। तेन उक्तं यत् श्रद्धालूनां सुविधा सर्वोपरि अस्ति, तथा च धनाभावः कस्यचित् अपि व्यवस्थायाः बाधकः न भविष्यति। विभागाः आवश्यकतानुसारं प्रस्तावान् प्रस्तुवन्तु—जनपद–प्रशासनं आवश्यकां धनराशिं उपलब्धां करिष्यति। सभायां यात्रास्थापनस्थलं, पञ्जीकरणम्, मार्गाः, पेयजलम्, परिवहनम्, भोजन–व्यवस्था, शौचालयाः, स्वच्छता तथा प्रकाश–व्यवस्था इत्यादीनां समीक्षा अभवत्। ऋषिकेश–नगरे ३० तथा विकासनगर–नगरे २० पञ्जीकरण–शिविराणि चतुर्विंशतिः–होरा: संचाल्यन्ते। चल–पञ्जीकरण–दलानि अपि नियुक्तानि भविष्यन्ति। ऑफलाइन–पञ्जीकरणम्, पंक्ति–प्रबन्धनम् तथा यात्रिणां उपवेशन–व्यवस्थायाः समुचित–आयोजनं सुनिश्चितं कर्तुं निर्देशाः दत्ताः।

सभायां अवगतं कृतं यत् होल्डिङ्–स्थानं, ट्रान्जिट्–शिविराणि तथा प्रमुख–स्थलेषु स्थितानां होटल–धर्मशाला–आश्रमाणां सम्पर्क–संख्याः, सहायताकेन्द्रम् तथा नियन्त्रण–कक्ष–सूचनाः सार्वजनिकाः करिष्यन्ते। एल्–ई–डी–पटलानां माध्यमेन आवश्यकाः सूचनाः प्रसारिताः भविष्यन्ति। आईडीपीएल, हरबर्टपुर, कटापत्थर, नया गांव इत्यादिषु स्थलेषु जर्मन–हैङ्गराः स्थापयित्वा भोजनम्, पेयजलम्, शौचालयाः तथा चिकित्सकीय–सेवाः उपलब्धाः करिष्यन्ते।

परिवहन–विभागाय यात्रा–वाहनानां फिटनेस–परीक्षणं कृत्वा ग्रीन–कार्ड निर्गमनम् तथा पर्याप्त–वाहन–व्यवस्थायाः सुनिश्चितीकरणं कर्तुं निर्देशाः दत्ताः। होल्डिङ–एरियापर्यन्तं शटल–सेवा अपि संचाल्यते। स्वास्थ्य–विभागाय विशेषज्ञ–चिकित्सकानां नियुक्तिः, एम्बुलेन्स–उपलब्धता तथा परीक्षण–किट–प्रबन्धं सुनिश्चितं कर्तुं उक्तम्।

आरक्षी, होमगार्ड्, पीआरडी तथा कार्यकर्तृणां पर्याप्त–नियुक्त्या सुरक्षा–मार्गदर्शन–व्यवस्थां दृढीकर्तुं निर्णयः कृतः। यात्राव्यवस्थायाः नियमित–निरीक्षणाय नोडल तथा सेक्टर्–अधिकारिणां नियुक्तिः अपि प्रशासनद्वारा निर्देशिता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता