जल जीवन मिशनद्वारा परिवर्तिता ठरकपुरस्य कथा, हर घर नल, हर घर जल इत्येषः स्वप्नः साकारीभूतः
रायपुरम् 19 फ़रवरीमासः (हि.स.)। जल जीवन मिशन इत्यस्य माध्यमेन छत्तीसगढ़राज्यस्य मुंगेली जिलामुख्यालयात् पञ्चविंशतिः किलोमीटरदूरे स्थिते ग्रामे ठरकपुर “हर घर नल हर घर जल” इति स्वप्नं साकारितम् अस्ति। अस्य मिशनस्य अन्तर्गतं ठरकपुरग्रामे नलिकाजालं
ठरकपुर की  गंगा यादव


रायपुरम् 19 फ़रवरीमासः (हि.स.)।

जल जीवन मिशन इत्यस्य माध्यमेन छत्तीसगढ़राज्यस्य मुंगेली जिलामुख्यालयात् पञ्चविंशतिः किलोमीटरदूरे स्थिते ग्रामे ठरकपुर “हर घर नल हर घर जल” इति स्वप्नं साकारितम् अस्ति। अस्य मिशनस्य अन्तर्गतं ठरकपुरग्रामे नलिकाजालं विस्तारितं कृत्वा प्रत्येकगृहे नलकनेक्शनं प्रदत्तम्। अस्य अनन्तरं ग्रामे न केवलं पेयजलस्य उपलब्धता सुनिश्चिता, अपि तु जलस्य गुणवत्ता नियमितता च उन्नता अभवत्। अधुना ग्रामस्य प्रत्येकगृहे शुद्धपेयजलम् उपलभ्यते। एतेन ठरकपुरग्रामस्य कथा परिवर्तिता।

पूर्वं पेयजलसंकटेन पीडितस्य ठरकपुरस्य स्थिति अधुना पूर्णतया परिवर्तिता। कदाचित् पेयजलार्थं हस्तपम्पेषु दीर्घाः पङ्क्तयः, घटबाल्टिसहितानां ग्रामवासिनां भीडः, ग्रीष्मकाले च जलसंकटं दृश्यते स्म। पूर्वं समग्रग्रामः केवलं अष्टसु हस्तपम्पेषु आश्रितः आसीत्। ग्रीष्मकाले जलस्तरपतनात् एते हस्तपम्पाः प्रायः निष्क्रियाः भवन्ति स्म, येन विशेषतः महिलाः दूरस्थजलस्रोतसः जलं आनयितुं बाध्याः आसन्।

ठरकपुरग्रामस्य गंगा यादव कथयति यत् पूर्वं लघुशिशून् गृहे त्यक्त्वा दूरस्थहस्तपम्पात् जलं आनयितव्यम् आसीत्। ग्रीष्मकाले अत्यधिककष्टं भवति स्म। अधुना गृहे नलस्थापनं जातम्, पर्याप्तं जलं लभ्यते, जीवनं सुकरं जातम्। नलजलयोजनया महिलानां श्रमः समयः च रक्षितः, यं ते अधुना परिवारपालने शिशुपोषणे अन्येषु सृजनात्मककार्येषु च नियोजयितुं शक्नुवन्ति। एतेन तासां मुखेषु हास्यं प्रकटितम्।

ठरकपुरे जलजीवनमिशनं केवलं जलव्यवस्था न, अपि तु स्वास्थ्यसुविधासम्मानस्य साधनरूपेण आगतम्। शुद्धजलेन रोगाणां न्यूनता अभवत्, ग्रामवासिनां जीवनस्तरः अपि उन्नतः जातः।

---------------

हिन्दुस्थान समाचार