Enter your Email Address to subscribe to our newsletters

भाेपालम्, 19 फ़रवरीमासः (हि.स.)। मध्यप्रदेशविधानसभायाः बजटसत्रस्य अद्य गुरुवासरे चतुर्थः दिवसः अस्ति। सदसि जलसमस्या, वित्तीयअनियमितताया विषयः तथा आबकारीनीतिः इत्यादयः महत्त्वपूर्णाः विषयाः चर्चायाः संभावनां वहन्ति। राज्यपालस्य अभिभाषणे अपि चर्चा प्रवर्तते।
भाजपादलस्य विधायकः अजय विश्नोई जबलपुरनगरे गृहे गृहे नर्मदाजलप्रदायस्य नूतनयोजनायां कथितव्यवस्थाभङ्गविषये ध्यानाकर्षणप्रस्तावं दत्तवान्। सः योजनायाः कार्यान्वयने विद्यमानान् दोषान् प्रति सरकारस्य ध्यानं आकर्षयिष्यति।
कांग्रेसदलस्य विधायकः फुन्देलाल मार्को अनूपपुरस्य शासकीयस्नातकमहाविद्यालये वित्तीयअनियमितताविषये ध्यानाकर्षणप्रस्तावं प्रस्तुतवान्। आरोपः अस्ति यत् पुष्पराजगढस्य तत्कालीनप्रभारीप्राचार्येण छात्राणां शुल्कराशिः स्वार्थाय उपयुज्यते स्म। अस्मिन् विषये सः उच्चशिक्षामन्त्रिणः उत्तरं याचिष्यति।
वाणिज्यकरमन्त्री जगदीश देवडा वर्षस्य 2026 27 आबकारीनीतिविषये वक्तव्यं दास्यति। अस्मिन् विषये विपक्षेण प्रश्नाः अपि उद्भावनीयाः सन्ति।
राज्यपालः मंगुभाई पटेल स्वाभिभाषणे प्रदेशसरकारस्य योजनाः उपलब्धयश्च उल्लिखितवान्। डॉ मोहन यादव सरकारेण संचालितानां योजनानां प्रभावं तथा विकसितभारत 2047 इत्यस्य दृष्टौ मध्यप्रदेशस्य भूमिकां विस्तारतः निरूपितवान्। अद्य अपि तस्मिन् विषये चर्चा प्रवर्तते।
चतुर्थदिने द्वौ ध्यानाकर्षणप्रस्तावौ सह असीत्यधिकाः याचिकाः प्रस्तुताः भविष्यन्ति। मन्त्रिणः प्रह्लाद पटेल, सम्पतिया उइके, चैतन्य कश्यप, इन्द्रसिंह परमार तथा प्रद्युम्नसिंह तोमर सभायाः पटलोपरी विविधपत्राणि स्थापयिष्यन्ति। समग्रतः एषः दिवसः सरकारविपक्षयोः तीव्रवादविवादस्य साक्षी भविष्यति।
---------------
हिन्दुस्थान समाचार