नीतीश कुमारस्य नेतृत्वे ​अन्धकारात् प्रकाशं प्रति अग्रसरः बिहारः - मैथिलीठाकुरः
पटना, 19 फ़रवरीमासः (हि.स.)।मुख्यमन्त्रिणः नीतीशकुमारस्य नेतृत्वे बिहारे आगतान् परिवर्तनान् आधारीकृत्य विधानसभायां गुरुवासरे तीक्ष्णः वादविवादः दृष्टः। सदने शिक्षा-व्ययपत्रके भाषमाणा विधायक मैथिलीठाकुरः विपक्षं लक्ष्यीकृत्य उक्तवती यत् वर्ष २००५ तः
विधानसभा में मैथिली ठाकुर ने विपक्ष पर किया तीखा प्रहार


पटना, 19 फ़रवरीमासः (हि.स.)।मुख्यमन्त्रिणः नीतीशकुमारस्य नेतृत्वे बिहारे आगतान् परिवर्तनान् आधारीकृत्य विधानसभायां गुरुवासरे तीक्ष्णः वादविवादः दृष्टः। सदने शिक्षा-व्ययपत्रके भाषमाणा विधायक मैथिलीठाकुरः विपक्षं लक्ष्यीकृत्य उक्तवती यत् वर्ष २००५ तः पूर्वस्य बिहारः महाभारतस्य धृतराष्ट्रस्य हस्तिनापुरम् इव आसीत्, यत्र शासनं तु आसीत् किन्तु व्यवस्थां द्रष्टुं सुदृढीकर्तुं च इच्छाशक्तिः नासीत्। ततोऽपि महती वार्ता एषा आसीत् यत् तेभ्यः हस्तिनापुरस्य चिन्ता नासीत्, केवलं दुर्योधनस्य चिन्ता आसीत्।

​सा उक्तवती यत् एकः समयः आसीत् यदा सर्वकारीयविद्यालयानां स्थितिः जर्जरा आसीत्, शिक्षकाः वेतनाय इतस्ततः भ्रमन्ति स्म, बालकाः मध्याह्नभोजनमपि न प्राप्नुवन्ति स्म। पत्रेषु विद्यालयाः चलन्ति स्म, किन्तु धरातलीय-यथार्थता अन्या एव आसीत्। सा अवदत् यत् विपक्षस्य बहवः वरिष्ठाः नेतारः तस्य कालस्य साक्षिणः अपि आसन् सत्तायाः भागाः अपि, अतः तैः आत्ममन्थनं करणीयम्। सा उक्तवती— जनता कदाचित् विस्मरेत्, किन्तु इतिहासः कदापि न विस्मरति न च क्षमां करोति।

​वर्ष २००५ बिहारस्य कृते ऐतिहासिकं वलनं वर्णयन्ती सा उक्तवती यत् तस्मिन् समये एकस्य नवीनयुगस्य आरम्भः अभवत्, यस्य नाम नीतीशकुमारः इति अस्ति। सा अवदत् यत् राज्ये सुशासनस्य, कानून-व्यवस्थायाः, विकासस्य च नवीनपरम्परायाः आधारशिला स्थापिता।

​मुख्यमन्त्री-द्विचक्रिकायोजनायाः उल्लेखं कुर्वती सा एतां सर्वकारस्य ऐतिहासिकम् उपक्रमम् अघोषयत्। सा उक्तवती यत् एतया योजनया ग्रामीणक्षेत्राणां पुत्रीणां भाग्यं परिवर्तितम्। पूर्वं यत्र बालिकाः विद्यालयं गन्तुं न शक्नुवन्ति स्म, तत्र द्विचक्रिकां प्राप्य महत्यां संख्यायां छात्राः विद्यालयं गन्तुम् आरब्धवत्यः। तस्मिन् समये विपक्षः अस्याः योजनायाः उपहासं कृतवान् आसीत्, किन्तु अद्य एषा सम्पूर्णदेशस्य कृते आदर्शः संजाता अस्ति।

​महिलासशक्तीकरणे कानून-व्यवस्थायां च मैथिली ठाकुरः उक्तवती यत् पञ्चायतेषु महिलाभ्यः ५० प्रतिशतं आरक्षणं, मद्यनिषेधः, महिलासुरक्षासम्बद्धाः कठोराः नियमाः च सर्वकारेण पुत्रीभ्यः आत्मविश्वासं सम्मानं च दत्तमस्ति। सा समापनं कुर्वती उक्तवती यत् बिहारेण अन्धकारात् प्रकाशं प्रति, भयात् आत्मविश्वासं प्रति, 'जङ्गलराजात्' सुशासनं प्रति च यात्रा कृता अस्ति। अधुना राज्यं पश्चात् न द्रक्ष्यति, अपितु अग्रे एव गमिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता