महिला-महाविद्यालये एनएसएस इत्यस्य सप्तदिवसीय-शीतकालीनशिविरं सांस्कृतिककार्यक्रमेण सह सम्पन्नम्
कठुआ, 20 फरवरीमासः (हि.स.)। राजकीय-महिला-महाविद्यालय-कठुआ इत्यस्य एनएसएस इकाइ-द्वारा आयोजितं सप्तदिवसीय-विशेष-शीतकालीनशिविरं (२०२६) अन्तिमे दिने भव्य-सांस्कृतिककार्यक्रमेण सह समापनम् अभवत्। अस्मिन् अवसरे स्वयंसेविकाभिः स्वप्रतिभायाः, सांस्कृतिक-विव
7-day NSS winter camp concludes with cultural programme at Women's College


कठुआ, 20 फरवरीमासः (हि.स.)। राजकीय-महिला-महाविद्यालय-कठुआ इत्यस्य एनएसएस इकाइ-द्वारा आयोजितं सप्तदिवसीय-विशेष-शीतकालीनशिविरं (२०२६) अन्तिमे दिने भव्य-सांस्कृतिककार्यक्रमेण सह समापनम् अभवत्। अस्मिन् अवसरे स्वयंसेविकाभिः स्वप्रतिभायाः, सांस्कृतिक-विविधतायाः, सामुदायिक-भावनायाः च उत्कृष्टं प्रदर्शनं कृतम्।

​अस्मिन् कार्यक्रमे सप्त समूह-नृत्यानि तथा एकल-गायन-प्रस्तुतयः विशेष-आकर्षणाणि आसन्। स्वयंसेविकाभिः डोगरी, पञ्जाबी, हरियाणवी, राजस्थानी, गुजराती च लोकपरम्परासु आधारिताः रङ्गारङ्ग-प्रस्तुतयः प्रदर्श्य दर्शकानां भूरि-प्रशंसा प्राप्ता। लक्ष्मी नाम्न्या स्वयंसेविकया कार्यक्रमस्य सञ्चालनं कुर्वत्या सप्तदिवसीय-शिविरस्य गतिविधिनां विस्तृतं विवरणम् (Report) अपि प्रस्तुतम्।

​महाविद्यालयस्य प्राचार्यः जयपाल सिंहः मुख्य-अतिथिरूपेण उपस्थितः आसीत्, यदा तु प्रेस-क्लब-कठुआ इत्यस्य अध्यक्षः मनुज केसरः विशिष्ट-अतिथिरूपेण सम्मिलितः अभवत्। उभौ अतिथी स्वयंसेविकानां उत्साहस्य समर्पणस्य च प्रशंसां कुर्वन्तौ ताः समाजसेवायै प्रेरितवन्तौ। कार्यक्रमस्य अन्ते उत्कृष्ट-प्रदर्शनं कृतवत्यः स्वयंसेविकाः वक्तारः च पुरस्कारैः सम्मानिताः। शिविरस्य एतत् सफलं आयोजनं एनएसएस-कार्यक्रम-अधिकारिणः डाॅ. रितू कुमार शर्मा महोदयस्य मार्गदर्शने सम्पन्नम् अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता