“सजग कोरबा, सतर्क कोरबा” अभियानस्य अन्तर्गते डीजे संचालकानां होली सामग्री विक्रेतृणां चोपवेशनम् बैठक
नियम उल्लंघने शक्तकार्यावाही संचेतिता कोरबा, 20 फरवरीमासः (हि. स.)। बोर्डपरीक्षाणां च आगामिनः होलीपर्वणः शान्तिपूर्णं सुव्यवस्थितं च समापनार्थम् “सजग कोरबा सतर्क कोरबा” इत्यभियानस्य अन्तर्गतं कोरबा पुलिसेन विशेषप्रयत्नः कृतः। पुलिस अधीक्षक कोर
“सजग कोरबा, सतर्क कोरबा” अभियान के तहत डीजे संचालकों व होली सामग्री विक्रेताओं की बैठक, नियम उल्लंघन पर सख्त कार्रवाई की चेतावनी


नियम उल्लंघने शक्तकार्यावाही संचेतिता

कोरबा, 20 फरवरीमासः (हि. स.)।

बोर्डपरीक्षाणां च आगामिनः होलीपर्वणः शान्तिपूर्णं सुव्यवस्थितं च समापनार्थम् “सजग कोरबा सतर्क कोरबा” इत्यभियानस्य अन्तर्गतं कोरबा पुलिसेन विशेषप्रयत्नः कृतः। पुलिस अधीक्षक कोरबा सिद्धार्थ तिवारी भापुसे इत्यस्य निर्देशनस्य अधीनम् अतिरिक्त पुलिस अधीक्षक लखन पटले तथा नगर पुलिस अधीक्षक प्रतीक चतुर्वेदी इत्येताभ्यां अद्य शुक्रवासरे पुलिस अधीक्षक कार्यालय कोरबा इत्यस्य सभागारे डीजे संचालकानां होली सामग्री विक्रेतॄणां च पृथक् पृथक् बैठकाः आयोजिताः।

बैठके वरिष्ठाधिकारिणः स्पष्टतया उक्तवन्तः यत् बोर्डपरीक्षाकाले विद्यार्थिनां अध्ययनकार्ये कस्यापि प्रकारस्य व्यवधानं न सह्यते। तथा च होलीपर्व शान्तिपूर्णेन सौहार्दपूर्णेन सुरक्षितेन च वातावरणेन आचरितव्यम्, शासननिर्दिष्टानां सर्वेषां नियमाणां कठोरतया पालनम् अनिवार्यम् भविष्यति।

डीजे संचालकाः शासननिर्धारितकालमर्यादां दृढतया पालनं कुर्वन्तु इति निर्देशिताः। रात्रौ दशवादनानन्तरं डीजे ध्वनिविस्तारकयन्त्राणां वा संचालनं पूर्णतया निरुद्धं भवेत्, यावत् विधिवत् विशेषानुज्ञा न लभ्यते। ध्वनिस्तरः निर्धारित डेसिबल मर्यादात् अधिकः न भवेत्। परीक्षाकेन्द्रेषु शैक्षणिकसंस्थासु चिकित्सालयेषु च परितः विशेषसावधानी आचरितव्या इति अपि निर्दिष्टम्। नियमोल्लङ्घने उपकरणजप्तिः अनुज्ञापत्रनिरस्तीकरणं प्रकरणपंजीकरणं च इत्यादयः कठोराः दण्डात्मकाः उपायाः क्रियिष्यन्ते इति चेतावनी दत्ता।

तथैव होली सामग्री विक्रेतारः अपि कठोरनिर्देशान् प्राप्तवन्तः। कस्यापि प्रकारस्य मुखावरणस्य विक्रयः पूर्णतया निषिद्धः भविष्यति। आपत्तिजनक अश्लीलं वा लोकव्यवस्थां बाधमानं सामग्रीविक्रयः न कर्तव्यः। हानिकारकरासायनिकवर्णानां स्वास्थ्यहानिकरपदार्थानां च विक्रयः अपि पूर्णतया प्रतिबद्धः। यदि कस्याञ्चित् दुकाने निषिद्धसामग्री दृश्यते तर्हि सम्बन्धितविक्रेतुः विरुद्धं वैधानिकी कार्यवाही क्रियते इति स्पष्टतया उक्तम्।

बैठकायां उपस्थिताः सर्वे डीजे संचालकाः व्यापारीगणाश्च नियमपालनं पुलिस प्रशासनाय पूर्णसहयोगं च दास्यामः इति आश्वासनम् अददुः।

कोरबा पुलिसेन सर्वेभ्यः नागरिकेभ्यः आयोजकेभ्यः व्यापारिभ्यश्च अपील् कृतम् यत् बोर्डपरीक्षाकाले विद्यार्थिनां हितं सर्वोपरि मन्यन्ताम्, होलीपर्व च शान्तिपूर्णसौहार्दपूर्णवातावरणे आचरन्तु। अभियानेन अन्तर्गतं जिलायां निरन्तरं निरीक्षणं भविष्यति, नियमोल्लङ्घनकर्तॄणां विरुद्धं आवश्यकवैधानिकी कार्यवाही सुनिश्चितं क्रियते।

---------------

हिन्दुस्थान समाचार