Enter your Email Address to subscribe to our newsletters

भोपालम्, 20 फरवरीमासः (हि.स.)।
मध्यप्रदेशे पञ्चमी-अष्टमी-कक्षयोः मण्डल-पद्धत्याः परीक्षाः आरब्धाः।
मध्य प्रदेश राज्ये मण्डल-पद्धत्याः अनुसारं पञ्चमी तथा अष्टमी-कक्षयोः परीक्षाः अद्य शुक्रवासरात् आरभन्ते। अस्य कृते सर्वाः सज्जताः सम्पन्नाः। अस्मिन् वर्षे प्रायः २४.९० लक्ष-विद्यार्थिनः एतासु परीक्षासु उपविशन्ति। समग्र-प्रदेशे १२,९२० परीक्षा-केन्द्राणि निर्मितानि।
मध्य प्रदेश राज्य शिक्षा केंद्र द्वारा परीक्षा-केन्द्रेषु केन्द्राध्यक्षाः सहायक-केन्द्राध्यक्षाश्च नियुक्ताः। विद्यार्थिनः परीक्षा-केन्द्रे न्यूनातिन्यूनं त्रिंशत् निमेषान् पूर्वमेव आगन्तव्यम्। विभागेन बालानां सुविधार्थं सम्यक्-व्यवस्थाः कृताः। प्रत्येकस्मिन् केन्द्रे सुरक्षा-अनुशासनयोः विशेष-ध्यानं धार्यते। विद्यार्थिभ्यः समय-पालनस्य विशेष-परामर्शः दत्तः।
भाषानिर्वाचन-सम्बद्धाः विशेष-नियमाः
परीक्षायाः पारदर्शितायै विशेषः सञ्चार-प्रौद्योगिकी-पट्टः निर्मितः।
यदि कश्चन विद्यार्थी प्रथम-भाषारूपेण हिन्दी, उर्दू वा मराठीं चयनं करोति, तर्हि द्वितीय-भाषारूपेण आङ्ग्ल-भाषा अनिवार्या।
येषां विद्यार्थिनां प्रथम-भाषा आङ्ग्ल-भाषा अस्ति, तेषां कृते द्वितीय-भाषारूपेण हिन्दी-अध्ययनम् अनिवार्यम्।
राज्यस्य ५२२ निजी-विद्यालयानां कृते पृथक्-व्यवस्था अस्ति। तेषां प्रश्नपत्राणि राष्ट्रिय-शैक्षिक-अनुसन्धान-प्रशिक्षण-परिषद्-पाठ्यक्रमस्य आधारेण पृथक् सिद्धीकृतानि। ये विद्यार्थी अनुत्तीर्णाः भवन्ति अथवा न्यून-फलप्राप्ताः, तेषां कृते जुलाई-मासे २०२६ तमे वर्षे द्वितीया परीक्षा आयोज्यते, येन परिणाम-सुधारः कर्तुं शक्यते।
पञ्चमी-कक्षायाः परीक्षा-कार्यक्रमः (२६ फरवरी पर्यन्तम्)
अद्य — प्रथम-भाषा (हिन्दी/आङ्ग्ल/उर्दू/मराठी)
२१ फरवरी — गणितम् / दृष्टिबाधितानां कृते सङ्गीतम्
२३ फरवरी — द्वितीय-भाषा (आङ्ग्ल/हिन्दी)
२५ फरवरी — पर्यावरण-अध्ययनम्
२६ फरवरी — अतिरिक्त-भाषा (संस्कृत/हिन्दी/उर्दू/पञ्जाबी)
अष्टमी-कक्षायाः परीक्षा-कार्यक्रमः (२८ फरवरी पर्यन्तम्)
अद्य — प्रथम-भाषा (हिन्दी/आङ्ग्ल/उर्दू/मराठी)
२१ फरवरी — गणितम् / दृष्टिबाधितानां कृते सङ्गीतम्
२३ फरवरी — द्वितीय-भाषा (आङ्ग्ल/हिन्दी/उर्दू/मराठी)
२५ फरवरी — विज्ञानम्
२६ फरवरी — तृतीय-भाषा (संस्कृत/पञ्जाबी/मराठी)
२८ फरवरी — सामाजिक-विज्ञानम्।
एवं राज्ये सम्यक्-व्यवस्थया अनुशासनेन च एताः परीक्षाः सञ्चालयन्ते।
---------------
हिन्दुस्थान समाचार