भोपालम् - उच्च शिक्षा उत्कृष्टता संस्थाने द्विदिवसीयो “विज्ञान जागृति उत्सवः” अद्यारभ्य
भोपालम्, 20 फरवरीमासः (हि.स.)। भोपाल नगरे स्थितेन उच्च-शिक्षा-उत्कृष्टता-संस्थानेन राष्ट्रिय-विज्ञान-दिवसस्य उपलक्ष्ये अद्य शुक्रवासरात् द्विदिवसीयः “विज्ञान-जागृति-उत्सवः” आयोज्यते। अयं कार्यक्रमः उच्च-शिक्षा-उत्कृष्टता-संस्थानस्य तथा मध्य प्रदेश
राष्ट्रीय विज्ञान दिवस (प्रतीकात्मक)


भोपालम्, 20 फरवरीमासः (हि.स.)।

भोपाल नगरे स्थितेन उच्च-शिक्षा-उत्कृष्टता-संस्थानेन राष्ट्रिय-विज्ञान-दिवसस्य उपलक्ष्ये अद्य शुक्रवासरात् द्विदिवसीयः “विज्ञान-जागृति-उत्सवः” आयोज्यते। अयं कार्यक्रमः उच्च-शिक्षा-उत्कृष्टता-संस्थानस्य तथा मध्य प्रदेश विज्ञान एवं प्रौद्योगिकी परिषद संयुक्त-तत्त्वावधानेन सम्पन्नो भवति।

कार्यक्रमस्य मुख्योद्देश्यं विद्यार्थिषु वैज्ञानिक-दृष्टिकोणस्य, तार्किक-चिन्तनस्य, नवोन्मेष-क्षमतायाः, अनुसंधान-रुचेश्च प्रोत्साहनम्, समाजे विज्ञान-चेतनायाः विस्तारश्च अस्ति।

जनसम्पर्क-अधिकारी राजेश-दाहिमा अवदत् यत् प्रथम-दिने विज्ञान-विषयक-रङ्गोली-प्रतियोगिता तथा चित्र-प्रस्तुति-प्रतियोगिता आयोज्येते। एतासु प्रतियोगितासु विद्यार्थी विज्ञान-प्रौद्योगिकी, पर्यावरण-संरक्षणम्, सतत-विकासः, अन्तरिक्ष-अनुसन्धानम्, स्वास्थ्य-विज्ञानम्, समकालीन-वैज्ञानिक-उपलब्धयः इत्यादिषु विषयेषु स्व-रचनात्मक-अभिव्यक्तिं प्रदर्शयिष्यन्ति। रङ्गोली-चित्रयोः माध्यमेन जटिल-वैज्ञानिक-सिद्धान्ताः सरल-आकर्षक-प्रभावशाली-रूपेण प्रस्तूयन्ते, येन विज्ञान-कला-समन्वयस्य सुन्दर-दर्शनं भविष्यति।

द्वितीय-दिने २१ फरवरी तमे दिने विज्ञान-प्रश्नोत्तरी-प्रतियोगिता आयोज्यते, यस्मिन् विद्यार्थिनां ज्ञानं, तर्कशक्तिः, विश्लेषण-क्षमता च परीक्ष्यते। ततः परं भव्य-विज्ञान-प्रदर्शनी आयोज्यते, या अस्य उत्सवस्य प्रमुख-आकर्षणम् अस्ति।

विज्ञान-प्रदर्शिन्यां संस्थानस्य विद्यार्थिभिः षष्ट्यधिकानि (६०+) वैज्ञानिक-आदर्श-रूपाणि प्रदर्श्यन्ते। तेषु नवीकरणीय-ऊर्जा-स्रोतांसि, जल-संरक्षण-प्रविधयः, पर्यावरण-संतुलनम्, यन्त्रमानव-प्रणाली, कृत्रिम-बुद्धिमत्ता, जैव-प्रौद्योगिकी, सुबुद्ध-नगर-अवधारणा, दैनिक-जीवनोपयोगि-वैज्ञानिक-अनुप्रयोगाश्च आधारीकृताः कार्यशील-आदर्शाः सम्मिलिताः सन्ति। विद्यार्थी स्व-आदर्शानां कार्यपद्धतिं प्रत्यक्षं दर्शयिष्यन्ति तथा आगन्तुकान् तेषां वैज्ञानिक-आधारस्य विषये अवगतं करिष्यन्ति।

प्रदर्शिन्यां भोपाल-नगरे तथा समीपस्थ-क्षेत्रेभ्यः विविध-विद्यालय-महाविद्यालय-विद्यार्थिनः आमन्त्रिताः सन्ति। अनेन ते विज्ञानस्य व्यवहारिक-पक्षं बोधुं, नवोन्मेषेभ्यः प्रेरणां च प्राप्तुं अवसरं लप्स्यन्ते। अयं आयोजनः युवा-पीढ्यां वैज्ञानिक-चेतनायाः जागरणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

एवं “विज्ञान-जागृति-उत्सवः” माध्यमेन उच्च-शिक्षा-उत्कृष्टता-संस्थानं भोपाले विद्यार्थिषु वैज्ञानिक-चेतनाया: प्रसाराय नवोन्मेष-वर्धनाय च महत्त्वपूर्णं प्रयत्नं करोति।

---------------

हिन्दुस्थान समाचार