एआई-इम्पैक्ट-शिखर-सम्मेलने प्रदर्शनं देशस्य छविं मलिनीकर्तुं कृतः प्रयासः — मुख्यमन्त्री धामी
देहरादूननगरम्, २० फरवरीमासः (हि.स.)। उत्तराखण्ड-प्रदेशस्य मुख्यमन्त्री पुष्करसिंह: धामी अवदत् यत् इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलनम् 2026-सदृशे अन्ताराष्ट्रिय-मञ्चे नाटकीय-प्रदर्शनं कृत्वा विश्व-समुदायस्य समक्षं भारतस्य छविं मलिनीकर्तुं कृत: प्रया
मुख्यमंत्री पुष्कर सिंह धामी।


देहरादूननगरम्, २० फरवरीमासः (हि.स.)। उत्तराखण्ड-प्रदेशस्य मुख्यमन्त्री पुष्करसिंह: धामी अवदत् यत् इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलनम् 2026-सदृशे अन्ताराष्ट्रिय-मञ्चे नाटकीय-प्रदर्शनं कृत्वा विश्व-समुदायस्य समक्षं भारतस्य छविं मलिनीकर्तुं कृत: प्रयासः निन्दनीयः अस्ति, तथा एतेन काङ्ग्रेस-पक्षस्य राष्ट्रविरोधी-मानसिकता स्पष्टतया प्रकटते।

मुख्यमन्त्री धामी शुक्रवासरे सामाजिक-माध्यमेषु निर्गते वक्तव्ये अवदत् यत् भारतस्य विरोधं कृत्वा देश-द्रोहिणां शत्रूणाम् विषयं प्रवर्तयन् काङ्ग्रेसेन कोटिशः देशवासिनां स्वाभिमानं आघातितम् अस्ति। तेन आरोपः कृतः यत् सम्प्रतिकाले सम्पन्नेषु व्यापार-सन्धिषु भ्रम-प्रसारः, तथा ऑपरेशन-सिंदूर-सम्बन्धे एवं गलवान-प्रदेशे वीर-सैनिकानां पराक्रमे प्रश्नोत्थापनं अत्यन्तं दुर्भाग्यपूर्णम् अस्ति।

सः अवदत् यत् यदा सम्पूर्णः विश्वः भारतस्य तकनीकी-आर्थिक-सामरिक-शक्तिं स्वीकुर्वन् अस्ति, तदा एतादृशी राजनीति: देशहितस्य प्रतिकूला एव। मुख्यमन्त्रिणः मतानुसारं एते कर्माणि न केवलं दुर्बल-विपक्षस्य मानसिकतां सूचयन्ति, अपि तु राष्ट्रिय-सुरक्षां प्रति असंवेदनशीलतां अपि प्रकटयन्ति।

अन्ते मुख्यमन्त्रिणा विश्वासः व्यक्तीकृतः यत् देशस्य जनता एतादृशान् प्रयासान् प्रति लोकतान्त्रिक-रीत्या उत्तरं दास्यति, तथा भारतस्य प्रतिष्ठायाः विषये केनापि प्रकारेण सन्धिं कर्तुं न स्वीकरिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता