हरियाणा सर्वकारः सज्जवान् उद्देश्यप्रतिवेदनम् 2047
-राज्यपालस्य विधनसभायां प्रस्तुतः सर्वकारस्य प्रारूपः चंडीगढ़, 20 फ़रवरीमासः (हि.स.)। हरियाणराज्यस्य राज्यपालः प्रो. असीमकुमारघोषः उक्तवान् यत् ११६०७ कोटिरूप्यकव्ययेन निर्मीयमानः हरियाणा ऑर्बिटल रेल कॉरिडोरः राज्यस्य कृते “गेम चेंजर” इव भविष्य
हरियाणा के राज्यपाल विधानसभा में अभिभाषण देते हुए


-राज्यपालस्य विधनसभायां प्रस्तुतः सर्वकारस्य प्रारूपः

चंडीगढ़, 20 फ़रवरीमासः (हि.स.)।

हरियाणराज्यस्य राज्यपालः प्रो. असीमकुमारघोषः उक्तवान् यत् ११६०७ कोटिरूप्यकव्ययेन निर्मीयमानः हरियाणा ऑर्बिटल रेल कॉरिडोरः राज्यस्य कृते “गेम चेंजर” इव भविष्यति।

विधानसभायाः बजटसत्रस्य प्रथमदिने अभिभाषणद्वारा राज्यपालः शुक्रवासरे अवदत् यत् अस्य कॉरिडोरस्य प्रथमः खण्डः पातली–मानेसर मध्ये मालवाहकयानानां कृते उद्घाटितः अस्ति। अस्य सम्पूर्णपरियोजनायाः पूर्णता जून २०२९ पर्यन्तं साधनीया इति लक्ष्यं निर्धारितम् अस्ति। मार्गेषु समस्ताः लेवल क्रासिंग इति सञ्चारविघ्नस्थानानि अपाक्रियन्ते।

मारुति सुजुकी इत्यस्य योजनानां उल्लेखं कुर्वन् राज्यपालः अवदत् यत् मारुति सुजुकी संस्थया फरवरी २०२५ मासे आईएमटी खरखौदा स्थले ९४१३ कोटिरूप्यकनिवेशेन वाणिज्यिकउत्पादनं आरब्धम्। अप्रैल २०२६ मासे ६००० कोटिरूप्यकनिवेशयुक्तायां नूतनायां एककायां उत्पादनं प्रारभ्यते।

राज्यपालः अवदत् यत् कॉमन फैसिलिटी केंद्र निर्माणार्थं ४९ आवेदनपत्राणि अनुमोदितानि सन्ति। तेषु ३२ केंद्राणि सञ्चालितानि सन्ति तथा १७ केंद्राणां सञ्चालनार्थं कार्यं प्रवर्तते।

शहरीविकाससम्बद्धसमाधानयोजना ३१ मार्च २०२६ पर्यन्तं विस्तारिताऽस्ति। अद्यावधि ३७१८ कोटिरूप्यकाणि १४ लक्षरूप्यकाणि बकायाराशेः वसूलितानि सन्ति।

राज्यपालः अवदत् यत् गुरुग्राम मेट्रो रेल परियोजनार्थं ३०० कोटिरूप्यकाणां बजटप्रावधानं कृतम् अस्ति। अस्य प्रथमचरणस्य ११ किलोमीटरदीर्घभागस्य निर्माणकार्यं प्रारब्धम् अस्ति। दिल्ली मेट्रो रेड लाइन नरेला इत्यस्मात् कुंडली पर्यन्तं विस्ताराय अनुमोदिता अस्ति।

दीनदयाल आवास योजना अन्तर्गतं ११०० एकरभूमेः कृते १२७ अनुज्ञापत्राणि निर्गतानि सन्ति। अस्य माध्यमेन १६७९७ अल्पमूल्यस्थलानि प्राप्स्यन्ते। अपरं च अफोर्डेबल ग्रुप हाउसिंग स्कीम अन्तर्गतं ११५२५ आवासीयएककानि अपि अनुमोदितानि सन्ति।

---------------

हिन्दुस्थान समाचार