Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २१ फरवरीमासः (हि.स.)। भारतीयजनयुवा-मोर्चा अद्य शनिवासरे, दिल्ली-नगरस्य भारतमण्डपे आयोजिता ए.आई.इम्पैक्ट्–समिट् काले, काङ्ग्रेस–कर्मचारिणां अर्धनग्न-प्रदर्शनस्य विरोधे भोपालेन सह प्रदेशे प्रमुखेषु जनपदेषु स्थितानां काङ्ग्रेसकार्यालयान् परित: अवरोधं कृत्वा आक्रामकं प्रदर्शनं करिष्यति।
भोपालसंभागे शनिवासरे मध्यान्हे द्विवादने प्रदेशकाङ्ग्रेसकार्यालयं, शिवाजी–चतुष्पथस्य समीपे, भोपाल–ग्रामीण, सीहोर, विदिशा, राजगढ, रायसेन, नर्मदापुरम् इत्यादीनां जनपदानां कर्मकराः समागत्य प्रदर्शनं करिष्यन्ति। एतेन सह युवा–मोर्चा–नेतृत्वे ग्वालियर, मुरैणा, सागर, इन्दौर, खण्डवा, उज्जैन, मंदसौर, रीवा, शहडोल, जबलपुर, छिन्दवाड़ा च जनपदेषु काङ्ग्रेस् कार्यालयान् परित: अवरोधं कृत्वा विरोध–प्रदर्शनं आयोज्यते।
भारतीयजनयुवा–मोर्चा–प्रदेशाध्यक्षः श्यामटेलरः उक्तवान् यत् अद्य समग्रं जगत् भारतस्य तन्त्रज्ञान–क्षमताया: कृत्रिमबुद्धिमत्ता (ए.आई.) क्षेत्रे नेतृत्वं प्रशंसति स्म। तस्मिन् समये राहुल–गांधी–आदेशेन काङ्ग्रेस–कर्मचारिणः भारतमण्डपे आयोजिता ए.आई.इम्पैक्ट्–समिट्–स्थले अर्धनग्न–प्रदर्शनं कृत्वा भारतस्य प्रतिमां धुमिलं कर्तुं प्रयत्नं कृतवन्तः। अनेन प्रकारेण प्रदर्शनेन राष्ट्रस्य शिरः लज्जया अधोमुखं कृतम्। एतस्य विरोधे, शनिवासरे प्रदेशे सर्वत्र भारतीयजनयुवा–मोर्चा द्वारा काङ्ग्रेसकार्यालयान् परित: अवरोधं कृत्वा राहुल–गांधीन: तथा काङ्ग्रेस–विरोधे आक्रामकं प्रदर्शनं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani