अंताराष्ट्रिये महाशिवरात्रि महोत्सवे सज्जं भव्यम् अंताराष्ट्रियपरंपरापदप्रयाणम्, 35 दलानि प्रास्तुवन् सांस्कृतिकसौंदर्यम्
मंडी, 21 फ़रवरीमासः (हि.स.)। अंतरराष्ट्रियस्य महाशिवरात्रि महोत्सवस्य मंडीस्थस्य अन्तर्गते आयोजिते भव्ये अन्तरराष्ट्रिये सांस्कृतिकपदप्रयाणे पञ्चत्रिंशत् सांस्कृतिकदलानि सहभागित्वा नगरं वर्णैः संगीतैः लोकपरम्पराभिः च पूर्णतया आलिप्तवन्ति। शिक्षा
सांस्कृतिक परेड में झूमते-नाचते विदेशी कलाकार।


मंडी, 21 फ़रवरीमासः (हि.स.)।

अंतरराष्ट्रियस्य महाशिवरात्रि महोत्सवस्य मंडीस्थस्य अन्तर्गते आयोजिते भव्ये अन्तरराष्ट्रिये सांस्कृतिकपदप्रयाणे पञ्चत्रिंशत् सांस्कृतिकदलानि सहभागित्वा नगरं वर्णैः संगीतैः लोकपरम्पराभिः च पूर्णतया आलिप्तवन्ति। शिक्षामन्त्री रोहित ठाकुर उपायुक्तकार्यालयपरिसरात् परेडायाः हरितध्वजप्रदर्शनपूर्वकं प्रस्थानम् अकार्षीत्। परेड सेरीमञ्चात् गत्वा इन्दिरामार्केटपरिसरं प्राप्तवती, यत्र मार्गयोः उभयतः बहुसंख्याकैः जनैः एषा अद्भुता सांस्कृतिकझांकी सादरं स्वागतिता।

शिक्षामन्त्री रोहित ठाकुर महोदयः अवदत् यत् अयं महोत्सवः केवलम् आस्थायाः प्रतीकः न, अपि तु सांस्कृतिकएकतायाः वैश्विकभ्रातृत्वस्य च द्योतकः अस्ति। विभिन्नदेशेभ्यः राज्येभ्यश्च आगतकलाकाराणां सहभागिता हिमाचलप्रदेशस्य “अतिथिदेवो भवः” इति परम्परां दृढीकरोति तथा मंडीनगरस्य विश्वपटलस्थां नवीनां परिचितिं निर्माति।

परेडायाः अग्रे भारतस्य तिरङ्गध्वजः उन्नीतः आसीत्, तस्य पृष्ठतः देशविदेशेभ्यः आगताः कलाकाराः पारम्परिकवेशभूषासु स्वस्वसंस्कृतेः प्रदर्शनं कुर्वन्तः अग्रे प्रस्थिताः। पदप्रयाणस्य अन्ते मधुरधुनिभिः सह होमगार्डदलस्य वाद्यवृन्दम् आकर्षणस्य केन्द्रम् अभवत्। दर्शकाः एतानि मनोहरदृश्यानि स्वदूरवाणीयन्त्रेषु अंकितवन्तः, सर्वत्र उत्सवमयः वातावरणः आसीत्।

अन्तरराष्ट्रीयदलेषु अर्जेण्टिना, फ्रान्स, संयुक्तराज्यअमेरिका, श्रीलङ्का इत्यस्य द्वौ दलौ, रूसदेशः, आफ्रिकाखण्डस्य तान्जानिया नाइजीरिया घाना जिम्बाब्वे लाइबेरिया स्वाजीलैण्ड लेसोथो कैमरून दक्षिणआफ्रिका देशाः, वेनेजुएला, नेपाल, कजाकिस्तान तथा कंबोडिया देशेभ्यः आगताः कलाकाराः आसन्। एतेषां दलानां पारम्परिकलोकनृत्यानां मनोहरप्रस्तुतयः अभवन्। अर्जेण्टिनादेशीयकलाकारैः “फायरडान्स” इत्यनेन रोमाञ्चः उत्पादितः, रूसदेशीयैः “एलईडी डान्स” इत्यनेन आधुनिकतायाः परम्परायाश्च अद्वितीयः संगमः प्रदर्शितः।

देशस्य सप्तसु राष्ट्रियदलेषु राजस्थान, गुजरात, उत्तराखण्ड, पंजाबस्य द्वौ दलौ, असम तथा मणिपुर इत्येभ्यःराज्येभ्यः कलाकाराः सहभागीभूताः। प्रदेशस्य शिमला, हमीरपुर, लाहौलस्पीति, कुल्लू, चंबा, किन्नौर तथा सिरमौर इत्येतेषु सप्तसु जिल्लासु स्थिताः सांस्कृतिकदलाः अपि स्वलोकपरम्पराणां शोभां प्रसारितवन्तः। तदतिरिक्तं मंडीजिल्लायाः पञ्च स्थानीयसांस्कृतिकदलानि अपि परेडायां सहभागित्वा कार्यक्रमस्य शोभां वर्धितवन्ति। स्वयंसहायतासमूहानां महिलाभिः प्रस्तुतः “मण्डव शो” अपि विशेषाकर्षणस्य केन्द्रम् आसीत्।

नानावर्णवेशभूषाः लोकवाद्यानां मधुरधुनयः पारम्परिकनृत्यशैलयः च समग्रं नगरं उत्सवमयं कृतवन्ति। एषा परेड अन्ताराष्ट्रियमहाशिवरात्रिमहोत्सवस्य सांस्कृतिकविविधतायाः वैश्विकसहभागितायाश्च जीवदृष्टान्तः अभवत्।

---------------

हिन्दुस्थान समाचार