Enter your Email Address to subscribe to our newsletters

जम्मूः, 21 फरवरीमासः (हि.स.)। मनोज सिन्हा जम्मू-कश्मीरस्य उपराज्यपालः शनिवासरे लोकभवने आयोजिते औपचारिकसमारोहे सेवानिवृत्तं भारतीय-प्रशासनिक-सेवायाः (आईएएस) अधिकृतं शान्तमनुं राज्यनिर्वाचनायुक्तपदे शपथं दापितवान्।
एषः शपथग्रहणसमारोहः जम्मू-कश्मीर-सर्वकारेण तस्य नियुक्तेः आधिकारिक-घोषणायाः अनन्तरं आयोजितः। सामान्य-प्रशासन-विभागस्य पक्षतः निर्गत-आदेशे शान्तमनुं संवैधानिकपदे नियुक्तमिति सूचना प्रदत्ता आसीत्।
सरकारेण निर्गत-आदेशानुसारं शान्तमनुः पञ्चवर्षपर्यन्तं वा सप्ततिवर्ष-आयुप्राप्तेः पर्यन्तं राज्यनिर्वाचनायुक्तपदे नियुक्तः अस्ति। तस्य नियुक्तिः पदभारग्रहण-तिथेः आरभ्य प्रभावी भविष्यति।
उल्लेखनीयम् यत् राज्यनिर्वाचनायुक्तस्य पदं स्थानीय-निकाय-निर्वाचनानां तथा सम्बन्धित-निर्वाचन-प्रक्रियाणां सञ्चालनार्थं अत्यन्तं महत्त्वपूर्णं भवति। शान्तमनॊः नियुक्तिः जम्मू-कश्मीर-प्रदेशे निर्वाचन-प्रक्रियायाः सुचारु-तथा-पारदर्शी-रीत्या सञ्चालनस्य दिशि महत्त्वपूर्णं पदक्षेपं मन्यते।--------------------
हिन्दुस्थान समाचार