Enter your Email Address to subscribe to our newsletters

दतियानगरम्, २१ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनसिंहयादवः अद्य शनिवासरे दतिया–जनपदे सेवढ़ा–तहसीले आयोज्यमाने कार्यक्रमे ५३२ कोटिरूप्यकाणि विकासकार्याय प्रदास्यति।
जनसंपर्क–अधिकारी निहारिका मीना उक्तवती यत् एषु विकास–कार्येषु मुख्यतया सिंध–नद्या: उपरि नवनिर्मित–सेतो: लोकार्पणं समाविष्टम् अस्ति। तेन सह सांदीपनि-शासकीय-उच्चतर–माध्यमिक–विद्यालयं, बसयानै: च अन्यानि विकास–कार्याणि अपि लोकार्पितानि भविष्यन्ति। मुख्यमंत्री डॉ.यादवः सनकुआ–धाम्न: समीपे स्थितं द्वारिकाधीश–मन्दिरं पूजार्चनाय अपि आगमिष्यति।
अस्मिन् कार्यक्रमे कृषि–उपज–मण्डी–प्रांगणे सेवामध्ये मुख्यमंत्री डॉ.यादवः २९९.३२ कोटिरूप्यकाणां व्ययेन पूर्णानि ५३ विकास–कार्याणि लोकार्पयिष्यति तथा २३३.२४ कोटिरूप्यकाणां व्ययस्य २१ कार्याणां भूमिपूजनं शिलान्यासं च करिष्यति। अनन्तरं विभिन्न–शासकीय–योजनासु हितग्राहिभ्यः हितलाभः वितरिष्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani