Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २१ फरवरीमासः (हि.स.)। मध्यप्रदेशे मतदाता–सूच्याः विशेष–गहन–पुनरीक्षणकार्यं (एस.आई.आर.) पूर्णम् अभवत्।भारतनिर्वाचन–आयोगेन एस.आई.आर अन्तर्गतं निर्दिष्टकार्यक्रमानुसारं प्रदेशस्य सर्वेषु जनपदेषु अद्य शनिवासरे उपायुक्त–जनपद–निर्वाचन–अधिकारिणां उपस्थितिरेव चित्रयुक्त–मतदाता–सूच्याः अन्तिमं प्रकाशनं क्रियते।
अस्मिन्नेव सम्बन्धे मान्यता–प्राप्त–राजनैतिक–दलानां पदाधिकारिणां समागमः मध्याह्ने आयोज्यते। अस्यां सभायां मान्यता–प्राप्त–राजनैतिक–दलानां पदाधिकारिभ्यः अन्तिमरूपेण प्रकाशित–मतदाता–सूच्याः प्रतिलिपि: प्रदत्तव्या।
हिन्दुस्थान समाचार / Dheeraj Maithani