Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 21 फ़रवरीमासः (हि.स.)।
चुनारनगरस्य लोवरलाइनप्रदेशस्थिते सन्त थॉमस विद्यालये अध्ययनरतः अन्तरमाध्यमिकवर्गस्य छात्रः श्रीयांशकुमारसिंहः जेईई मेन्स परीक्षायां प्रथमप्रयत्नेनैव ९९.१२ प्रतिशताङ्कं प्राप्तवान्, येन विद्यालयस्य क्षेत्रस्य च नाम प्रकाशयामास। तस्य सफलतया परिजनानां शिक्षकाणां च मध्ये हर्षतरङ्गः उदितः।
विद्यालयस्य प्रधानाचार्यः फादर सन्तोषकुमारः तं अभिनन्द्य उक्तवान् यत् एषा उपलब्धिः तस्य निरन्तरपरिश्रमस्य, अनुशासनस्य, लक्ष्यनिष्ठायाश्च फलम् अस्ति। सः आशां व्यक्तवान् यत् श्रीयांशः आगामिनि जेईई एडवांस परीक्षायामपि उत्कृष्टं प्रदर्शनं करिष्यति।
वाराणसीजनपदस्य चिरईखण्डनिवासी श्रीयांशः अधुना चुनारनगरस्थिते स्वफूफु मन्नासिंहस्य गृहे निवसन् अध्ययनं करोति। सः अवदत् यत् अधुना तस्य लक्ष्यं जेईई एडवांस उत्तीर्ण्य कस्यचित् प्रतिष्ठितसंस्थाने कम्प्यूटरसायन्स विषयेन अभियांत्रिकी अध्ययनं कर्तुम् अस्ति।
स्वसफलतायाः श्रेयः सः मातापितृसहयोगाय, गुरूणां मार्गदर्शनाय, नियमिताध्ययनाय च अर्पितवान्। तस्य अस्याः उपलब्धेः निमित्तं नगरस्य विशिष्टजनाः, शिक्षकाः, सहपाठिनः च तम् अभिनन्दितवन्तः।
---------------
हिन्दुस्थान समाचार