दिव्या, भव्या ऐतिहासिकी च भविष्यति कुभमेला - मुख्यमंत्री
हरिद्वारम्, 21 फ़रवरीमासः (हि.स.)। मुख्यमंत्री पुष्कर सिंह धामी शनिवासरे हरिद्वार-नगरे आयोजितायां उच्च-स्तरीय-सभायाम् आगामि-वर्षे आयोज्यमानस्य कुंभ मेला-महोत्सवस्य सिद्धताः विस्तरेण समीक्षितवान्। मेला-नियन्त्रण-भवने आयोजितायां सभायां सः अवदत् यत् ह
समीक्षा बैठक लेते सीएम धामी


हरिद्वारम्, 21 फ़रवरीमासः (हि.स.)। मुख्यमंत्री पुष्कर सिंह धामी शनिवासरे हरिद्वार-नगरे आयोजितायां उच्च-स्तरीय-सभायाम् आगामि-वर्षे आयोज्यमानस्य कुंभ मेला-महोत्सवस्य सिद्धताः विस्तरेण समीक्षितवान्। मेला-नियन्त्रण-भवने आयोजितायां सभायां सः अवदत् यत् हरिद्वार-कुंभ-मेला दिव्य-भव्य-ऐतिहासिक-स्वरूपेण आयोज्यते। श्रद्धालूनां सुविधा-सुगमता-सुरक्षा च शासनस्य सर्वोच्च-प्राथमिकता भविष्यति।

मुख्यमन्त्री पूर्व-सभायां दत्तानां निर्देशानां पालन-स्थितिं तथा वर्तमान-कार्याणां प्रगतेः विषये विवरणं प्राप्तवान्। सः सर्वाणि प्रमुख-स्थायी-कार्याणि अक्तूबर-मास-पर्यन्तं पूर्णीकर्तुं निर्देशं दत्त्वा अस्थायी-कार्य-प्रस्तावान् शीघ्रं अंतिम-रूपेण निश्चित्य समयबद्ध-रीत्या सम्पन्न-कर्तुं आज्ञापितवान्। निर्माण-कार्याणां गुणवत्ता-सुनिश्चित्यर्थं तृतीय-पक्ष-लेखापरीक्षणस्य अपि निर्देशः दत्तः।

परिवहन-तथा-वाहन-स्थापन-व्यवस्थां सुदृढीकर्तुं वैकल्पिक-मार्ग-चिह्नांकनम्, संभावित-भीडां दृष्ट्वा स्नान-आवागमन-निवास-व्यवस्थायाः विस्तृत-योजना-निर्माणं च करणीयम् इति सः उक्तवान्। कुंभ-क्षेत्रे स्वच्छता-व्यवस्था सुदृढा भवेत् इति निर्देशः दत्तः तथा स्वयंसेवी-संस्थाः अपि सहयोगाय आमन्त्रिताः। साधु-सन्त-अखाडा-जनप्रतिनिधि-धार्मिक-संस्थादीनां सुझावान् समावेश्य समन्वित-प्रयत्नाः करणीयाः इति अपि बलं दत्तम्।

सुरक्षा-व्यवस्थायाः समीक्षां कृत्वा पर्याप्त-पुलिस-बलानां नियोजनं, साइबर-सुरक्षा, अग्निशमन-तथा-रक्षण-दलानां उपलब्धता सुनिश्चितीकरणस्य निर्देशाः दत्ताः। कुंभ-क्षेत्रस्य सेतूनां सुरक्षा-परीक्षणं, घाटानां सुदृढीकरणं, सुरक्षा-रेलिङ्-स्थापनं, फिसलन-निरोधक-व्यवस्थाः समये पूर्णीकरणं तथा सर्वाः विद्युत्-रेखाः भूमिगत-करणीयाः इति अपि आज्ञापितम्।

भूमि-प्रबन्धन-आवंटन-प्रक्रियायाः निरीक्षणं स्वयम् मेलाधिकारी द्वारा क्रियेत, क्षेत्रं च अतिक्रमण-मुक्तं भवेत् इति अपि निर्देशः दत्तः।

सभायां सतपाल महाराजः, सुबोध उनियालः, त्रिवेंद्र सिंह रावतः च अन्ये जनप्रतिनिधयः अपि स्व-सुझावान् अर्पितवन्तः। मेलाधिकारी श्रीमती सोनिका महोदया स्वीकृत-प्रस्तावित-कार्याणां प्रगतेः विस्तृत-प्रस्तुतीकरणं कृतवती।

अस्मिन् अवसरे शासन-प्रशासनस्य वरिष्ठ-अधिकारीणः तथा स्थानीय-जनप्रतिनिधयः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार