मुख्यमंत्री धामी कुंभ मेलायै 234.55 कोटिमितरुप्यकाणां 34 परियोजनानाम् अकरोत् शिलान्यासम्
हरिद्वारम्, 21 फ़रवरीमासः (हि.स.)। मुख्यमन्त्री पुष्कर सिंह धामी शनिवासरे हरिद्वार-नगरे कुंभ मेलायां-२०२७ सिद्धताः समीक्षितवान्। अस्मिन् अवसरे कुंभ-मेला-नियन्त्रण-भवने राज्य-सर्वकारेण स्वीकृतानां २३४.५५-कोटि-रूप्यक-मूल्य-युक्तानां ३४ स्थायी-विकास-
शिलान्यास करते हुए सीएम धामी


हरिद्वारम्, 21 फ़रवरीमासः (हि.स.)। मुख्यमन्त्री पुष्कर सिंह धामी शनिवासरे हरिद्वार-नगरे कुंभ मेलायां-२०२७ सिद्धताः समीक्षितवान्। अस्मिन् अवसरे कुंभ-मेला-नियन्त्रण-भवने राज्य-सर्वकारेण स्वीकृतानां २३४.५५-कोटि-रूप्यक-मूल्य-युक्तानां ३४ स्थायी-विकास-परियोजनानां शिलान्यासः कृतः।

अस्मिन् अवसरे सः उक्तवान् यत् राज्य-सर्वकारस्य प्रतिबद्धतानुसारं कुंभ-मेलायाः-२०२७ सफल-सुरक्षित-सुव्यवस्थित-आयोजनस्य सह हरिद्वार-नगरस्य दीर्घकालीन-विकास-सुदृढीकरणे एताः परियोजनाः अत्यन्तं महत्त्वपूर्णाः भविष्यन्ति।मुख्यमन्त्री अधिकाऱिभ्यो निर्देशं दत्तवान् यत् सर्वाणि कार्याणि समये पूर्णानि स्युः तथा कुंभ-संबद्ध-व्यवस्थाः सुव्यवस्थिताः भवन्तु। सर्वे विभागाः परस्पर-समन्वयेन कार्यं कुर्वन्तु इति अपि तेन उक्तम्।

शिलान्यासितानि कार्याणि१ घाट-निर्माण-सिंचाई-अवसंरचना (सिंचाई-विभागः)कुल ०७ कार्याणि, व्ययः ७०.५४ कोटि-रूप्यकाणि—

अपर-गङ्गा-नहरस्य दक्षिण-वाम-तटे विभिन्न-स्थानेषु घाट-निर्माणं पुनर्विकासश्च।

९०-मीटर-दीर्घ-समिश्र-इस्पात-गर्डर-द्वि-लेन-सेतु-निर्माणम्।

त्रयाणाम् अस्थायी-सेतूनां स्थापना-मरम्मत-रक्षणं च।२ मार्ग-परिवहन-अवसंरचना (लोक-निर्माण-विभागः)कुल १२ कार्याणि, व्ययः १२७.२३ कोटि-रूप्यकाणि—बहादराबाद-सिडकुल-चतुर्लेन-मार्गस्य विस्तारणं सुदृढीकरणं च।राष्ट्रिय-राजमार्गः-३३४ (दिल्ली-हरिद्वार-देहरादूनम् ) इत्यस्य विस्तारणम्।नगर-क्षेत्रे बिटुमिनस-कङ्क्रीट-उपयोगेन नवीनीकरणं, पादचारी-पथ-निर्माणं सौन्दर्यीकरणं च।हरिद्वार-मास्टर-प्लान-अन्तर्गत प्रशासनिक-मार्ग-परिसरस्य विकासः।३ पेय-जल-जल-आपूर्ति-अवसंरचना (जल-संस्थानम्)कुल ०९ कार्याणि, व्ययः १८.११ कोटि-रूप्यकाः—

पम्प-आधारित-जलापूर्ति-योजनानां पुनर्गठनम्।१५०० केएल-क्षमता-युक्त-उर्ध्व-टङ्क-निर्माणं नलकूप-स्थापनं च।१०-मीटर-व्यास-युक्तानां पञ्च आरसीसी-इन्फिल्ट्रेशन-कूपानां निर्माणम्।४ श्रद्धालु-सुविधा-सहायक-अवसंरचनाकुल ०६ कार्याणि, व्ययः १८.६७ कोटि-रूप्यकाणि—चंडी देवी मंदिर तथा मनसा देवी मंदिर-मार्गयोः तीर्थयात्रिणां कृते सुविधानां विकासः।

बैरक-औषधि-भण्डारण-कक्ष-निर्माणम्।

मेला-नियन्त्रण-भवनस्य नवीनीकरणं अतिरिक्त-बैरक-निर्माणं च।एवं समग्रतया एताः परियोजनाः कुंभ-मेला-२०२७ इत्यस्य सफल-आयोजनाय तथा हरिद्वार-नगरस्य आधारभूत-अवसंरचना-विकासाय महत्त्वपूर्णं योगदानं दास्यन्ति।

---------------

हिन्दुस्थान समाचार