Enter your Email Address to subscribe to our newsletters

अयोध्या, 22 फ़रवरीमासः (हि.स.)।
क्रीड़ा भारती द्वारा आयोजितः ‘रन फॉर राम’ नामकः मैराथनधावनस्य चतुर्थः संस्करणः रविवासरे राम कथा पार्क इत्यत्र सफलतया सम्पन्नः। लता मंगेशकर चौक इत्यस्मात् स्थानात् आरब्धायां अस्यां धावनस्पर्धायां सहस्रशः प्रतिभागिनः सहभागितां कृतवन्तः। राष्ट्रीय स्वयंसेवक संघ तत्वावधाने कार्यरतया संस्थया एषः कार्यक्रमः स्वास्थ्यसुदृढता सामूहिकैक्यभावस्य च उद्देशेन सफलः अभवत्।
अयोध्यायाः ऐतिहासिकपृष्ठभूमौ आधृतः अयं मैराथनः प्राचीनायाः ‘चतुर्दशकोशी परिक्रमा’ इत्यस्याः प्रेरणया आयोजितः। अस्मिन् वर्षे देशविदेशयोः धावकानां विशालसंख्या उपस्थिताभूत्, येन एषः अद्यावधि महत्तमः आयोजनः जातः। पूर्वसंस्करणेभ्यः अस्मिन् वर्षे स्त्रीणां सहभागितायां विशेषवृद्धिः दृष्टा। शताधिकाः महिलाधाविकाः सहभागं कृत्वा क्रीडाक्षेत्रे समावेशितायाः दिशि महत्वपूर्णं पदं स्थापितवन्त्यः।
आयोजनस्य विषये प्रतिक्रिया दत्त्वा क्रीड़ा भारती उत्तरप्रदेशस्य प्रदेशाध्यक्षः अवनीशकुमारसिंहः अवदत् यत् चतुर्थसंस्करणस्य सफलसमापनं गर्वविषयः अस्ति। सर्ववयस्कानां जनानां सहभागिता उत्साहश्च प्रशंसनीयौ स्तः। अद्य अयोध्यायां दृष्टः अनुशासनभावः ऊर्जा च श्रीरामस्य शाश्वतमूल्यानि प्रकाशयतः।
अस्मिन् मैराथने आरएफआईडी तन्त्रज्ञानस्य उपयोगः कृतः। 42 किमी 21 किमी 10 किमी 3 किमी इत्येताः श्रेण्यः आसन्। विजेतृषु अभिषेकसोनी 42 किमी पुरुषवर्गे, प्रिंसराजयादवः 21 किमी पुरुषवर्गे, सोनीदेवी 21 किमी महिला वर्गे, संदीपपालः 10 किमी पुरुषवर्गे, अङ्किता 10 किमी महिला वर्गे प्रमुखाः अभवन्।
समग्रे आयोजने 15 लक्षरूप्यकाणां पुरस्कारनिधिः स्थापितः। मुख्ये 42 किमी पुरुषवर्गे अभिषेकसोनी तथा इज़रायलदेशीयः अन्तरराष्ट्रीयधावकः देस्ये एंडालेव इत्येतौ संयुक्तविजेतारौ घोषितौ, उभाभ्यां प्रत्येकं 1.25 लक्षरूप्यकाणि दत्तानि। अन्येषां वर्गाणां विजेतृभ्यः 10000 रूप्यकात् आरभ्य 1 लक्षरूप्यकपर्यन्तं पुरस्काराः प्रदत्ताः।
टीवाईसी कम्युनिकेशन संस्थायाः संस्थापिका तथा स्त्री इंडियन स्पोर्ट्स फाउंडेशन संस्थायाः अध्यक्षा गीतासिंहः अवदत् यत् अस्मिन् वर्षे महिलाधाविकानां अभिलेखनीय सहभागिता उत्साहवर्धिनी अस्ति। एतेषु मञ्चेषु केवलं स्वास्थ्यप्रवर्धनं न भवति, अपि तु स्त्रीणां आत्मविश्वासस्य प्रतिनिधित्वस्य च सुदृढीकरणं भवति।
आयोजकैः उत्तर प्रदेश पर्यटन, इंडियन फार्मर्स फर्टिलाइज़र कोऑपरेटिव लिमिटेड अर्थात भारतीय किसान उर्वरक सहकारी लिमिटेड, अमूल डेयरी सहकारी संस्था,पीएचडी वाणिज्य एवं उद्योग मंडल इत्यादीनां सहयोगिनां संस्थानां प्रति कृतज्ञता व्यक्ता। ‘रन फॉर राम 2026’ क्रीडा स्वास्थ्यजागरूकतयोः माध्यमेन स्वकीयं विशिष्टपरिचयं सुदृढीकृतवान्।
विजेतृसूची – रन फॉर राम मैराथन 2026
42 किमी – पुरुष (भारतीय)
अभिषेक सोनी – 02:24:17
अक्षय कुमार – 02:24:31
पंकज सिंह – 02:42:26
42 किमी – अन्ताराष्ट्रिय पुरुष
देस्ये एंडालेव इथियोपिया – 02:29:33
डैनियल किपकेम्बोई रोनो – 02:54:52
अमोस किपलागट – 03:16:47
21 किमी – पुरुषः
प्रिंस राज यादव – 01:04:52
साहिल सागर – 01:05:17
रवि कुमार पाल
21 किमी – महिला
सोनी देवी – 01:19:10
कविता – 01:21:23
माधुरी यादव
10 किमी – पुरुषः
संदीप पालः – 00:30:12
पंकज यादवः – 00:30:25
इस्लाम अली
10 किमी – महिला
अंकिता – 00:36:45
आकांक्षा सिंह – 00:38:07
अंजली
हिन्दुस्थान समाचार