Enter your Email Address to subscribe to our newsletters


गुवाहाटीनगरम्, २२ फरवरीमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री हिमंतबिस्व: सरमा अद्य असमस्य द्वयोः प्रसिद्धयोः विभूतयोः पुण्यतिथौ ताभ्यां श्रद्धाञ्जलिं अर्पयन् तयोः स्मृतिं समनुस्मृतवान्।
मुख्यमन्त्री प्रसिद्धस्य चित्रकारस्य आद्य-शर्मण: पुण्यतिथौ गहनां श्रद्धां समर्पितवान्। सामाजिक–माध्यमेन प्रेषिते सन्देशे सः अवदत् यत् ‘विष्णु–राभा–पुरस्कारः’, ‘नलबारी–रत्नम्’ इत्यादिभिः विविधैः सम्मानै: सम्मानितः एषः ‘जीवन–कलाकारः’ न केवलं चित्रकलायाः क्षेत्रे, अपि तु भ्रम्यमाण–नाट्य–जगति कला–निर्देशकत्वेन अपि स्वस्य असाधारणां प्रतिभां प्रकटितवान्।
नलबारी–जनपदे ‘गुरुजी’ इति नाम्ना प्रसिद्धस्य तस्य जीवन–दर्शनम्, अनुशासनम् तथा कलाकारत्वे निष्ठा सदैव भावि–वंशम् प्रेरयिष्यन्तीति मुख्यमन्त्रिणा प्रतिपादितम्।
एतस्मिन्नेव प्रसङ्गे मुख्यमन्त्री असमीय–काव्य–साहित्यस्य प्रातःस्मरणीयं कविं बिनंदचंद्रबरुवां अपि पुण्यतिथौ श्रद्धया स्मृतवान्। स्वसन्देशे सः उक्तवान् यत् देशभक्त्या प्रेरिताः तस्य कविताः असमस्य गौरवमयीं परम्परां राष्ट्र–चेतनायाः प्रबलं निनादं च अभिव्यञ्जयन्ति। साहित्य–क्षेत्रात् परं शैक्षिक–क्षेत्रे अपि प्रेरणादायिनी वाणी, कवे: सृजनशीलता च अस्माकं राष्ट्रीय–जीवनं सदा प्रेरयिष्यति इति।
हिन्दुस्थान समाचार / अंशु गुप्ता