२८ फरवरीमासात् आरभ्य भारतीयजनतापक्ष: जन–आशीर्वाद–यात्रां प्रारभ्स्यति, राज्यसभायाः त्रिषु अपि आसनेषु प्रत्याशिनः स्थापयिष्यति — मुख्यमन्त्री
गुवाहाटीनगरम्, २२ फरवरीमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा घोषणां कृतवान् यत् भारतीयजनतापक्ष: २८ फरवरीमासात् आरभ्य राज्यव्यापिनी ‘जन–आशीर्वाद–यात्रा’ इत्यस्य कार्यक्रमस्य आरम्भं करिष्यति। तेनैव सह सः स्पष्टतया अवदत् यत् राज
संवाददाताओं से बातचीत करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


गुवाहाटीनगरम्, २२ फरवरीमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा घोषणां कृतवान् यत् भारतीयजनतापक्ष: २८ फरवरीमासात् आरभ्य राज्यव्यापिनी ‘जन–आशीर्वाद–यात्रा’ इत्यस्य कार्यक्रमस्य आरम्भं करिष्यति। तेनैव सह सः स्पष्टतया अवदत् यत् राज्यसभायाः त्रिषु अपि आसनेषु भाजपा स्वप्रत्याशिनः स्थापयिष्यति।

राज्य–भाजपा–मुख्यालये आयोजितस्य पक्षस्य निर्वाचन–प्रबन्धन–समितेः कार्यकारिणी–सभानन्तरं सञ्चारमाध्यमैः सह संवादं कुर्वन् मुख्यमन्त्री अवदत् यत् द्वयोः आसनयो: भाजपा प्रत्यक्षतया निर्वाचनं करिष्यति। तृतीय–आसनविषये तु विपक्षस्य रणनीतिं निरीक्ष्य पक्षः अग्रिम–योजनां निर्मास्यति इति सः उक्तवान्।

मुख्यमन्त्री एतदपि अवदत् यत् राज्यसभा–निर्वाचनस्य सन्दर्भे बोडोलैंड पीपुल्स फ्रंट (बीपीएफ) दलं कस्यापि आसनस्य याचनां न कृतवान्। सभायाः महत्त्वं निर्दिशन् सः अवदत् यत् तत्र संघकनात्मक–तथा निर्वाचन–रणनीतिसम्बद्धाः अनेके महत्त्वपूर्णाः निर्णयाः गृहीताः।

डॉ.सरमा विश्वासं व्यक्तवान् यत् ‘जन–आशीर्वाद–यात्रा’-माध्यमेन भाजपापक्ष: राज्ये जन–सम्पर्कं अधिकं सुदृढं करिष्यति तथा अग्रिम–राजनैतिक–गतिविधीनां कृते व्यापकं जन–समर्थनं सङ्ग्रहीष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता