Enter your Email Address to subscribe to our newsletters

मंडी, 22 फ़रवरीमासः (हि.स.)।
राज्यपालः शिवप्रतापशुक्लः अन्ताराष्ट्रियमहोत्सवस्य विधिवत् समापनं कृतवान्। मण्डीनगरस्य ऐतिहासिके पड्डलमैदाने आयोजितस्य समापनसमारोहे स्वसम्बोधने सः अवदत् यत् शिवरात्रिः केवलं पर्व नास्ति, अपितु धर्मसमर्पणसन्तुलनानां प्रतीकः अस्ति। भगवान् शिवस्य त्रिशूलः अस्मान् सत्यन्यायमार्गे गन्तुं प्रेरयति। हिमाचलस्य देवसंस्कृतिः अस्माकं आध्यात्मिकी धरोहरास्ति। सः मण्डीजनपदप्रशासनस्य सफलमेलनियोजनस्य प्रशंसाम् अकरोत्।
राज्यपालः गतवर्षीयआपदां स्मृत्वा करसोगसराजप्रदेशयोः जनानां धैर्यं नत्वा भगवान् शिवात् प्रदेशस्य समृद्धये प्रार्थनाम् अकरोत्। सः प्रधानमन्त्रिणः मनकीबात् कार्यक्रमस्य उल्लेखं कृत्वा अवदत् यत् मण्डी माण्डव्यऋषेः अद्भुता नगरी अस्ति। हिमाचलप्रदेशः देवपरम्परायाः केन्द्रबिन्दुः अस्ति। मण्डीनगर्याः पञ्चशतवर्षपर्यन्तं गौरवशाली परम्परा इतिहासश्च अस्ति, शिवरात्र्याः विषये जनानां महान् उत्साहः दृश्यते।
सः अवदत् यत् कुल्लूनगरस्य दशहरा तथा मण्डीशिवरात्रिः उभे अपि अन्ताराष्ट्रिये मेले स्तः। मण्डीस्थितं भूतनाथमन्दिरं वास्तुशिल्पस्य अनुपमं उदाहरणम् अस्ति। सः मण्डीजनपदप्रशासनं जनांश्च आहूतवान् यत् एतां वास्तुकलां संरक्षयन्तु, नाशं मा कुर्वन्तु, परिवर्तनं अपि मा कुर्वन्तु।
राज्यपालः अवदत् यत् रामः शिवश्च अस्माकं आराध्यौ पूर्वजौ च स्तः। अन्येषु देशेषु कतिपये जनाः ऐतिहासिकधरोहरान् नाशयन्ति, किन्तु मण्डी हिमाचलस्य नवपीढिः शिवतालानुगुणं नृत्यति। सः अवदत् यत् हिमाचले पर्यावरणविखण्डनकारणेन महान् उपद्रवः अभवत्। भगवान्तं शिवशंकरं प्रति प्रार्थना क्रियते यत् तस्य डमरुताण्डवेन हिमाचलस्य सर्वं संरक्षणं भवतु।
अस्मिन् अवसरे लेडी गवर्नर जानकीशुक्ला, प्रतिपक्षनेता जयरामठाकुरः, साधनाठाकुरः, अनिलशर्मा, चन्द्रशेखरः, पूर्णचन्दठाकुरः, इन्द्रसिंहगान्धी, दलीपठाकुरः, दीपराजः, वीरेन्द्रभट्टशर्मा तथा पार्षदगणाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार