'टॉपलेस, शेमलेस, ब्रेनलेस, फेसलेस' राजनीति-पर्याया जाता कांग्रेस - संजयशर्मा
धर्मशाला, 22 फ़रवरीमासः (हि.स.)। प्रदेश-भाजपा-प्रवक्ता संजयशर्मा ''ग्लोबल एआई समिट'' (वैश्विक-ए.आई.-शिखर-सम्मेलनम्) इत्यस्य अवसरे काङ्ग्रेस-दलेन कृतायाः प्रदर्शनस्य तीव्रां आलोचनां कृतवान्। सः अवदत् यत् काङ्ग्रेस-दलम् अद्य ''शीर्षविहीना, निर्
संजय शर्मा।


धर्मशाला, 22 फ़रवरीमासः (हि.स.)।

प्रदेश-भाजपा-प्रवक्ता संजयशर्मा 'ग्लोबल एआई समिट' (वैश्विक-ए.आई.-शिखर-सम्मेलनम्) इत्यस्य अवसरे काङ्ग्रेस-दलेन कृतायाः प्रदर्शनस्य तीव्रां आलोचनां कृतवान्। सः अवदत् यत् काङ्ग्रेस-दलम् अद्य 'शीर्षविहीना, निर्लज्जा, बुद्धिवीहीना, मुखविहीना' राजनीति-पर्याया जाता अस्ति। संजयशर्मा उक्तवान् यत् यदा प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं विश्वं प्रति तन्त्रज्ञानस्य 'आर्टिफिशियल इंटेलिजेंस' इत्यस्य च दिशां दर्शयति, तदा काङ्ग्रेस-कार्यकर्ताराः वस्त्राणि निष्कास्य देशस्य अन्तर्राष्ट्रिय-छविं मलिनं कर्तुं कुत्सित-प्रयासं कुर्वन्ति। 'भारत मण्डपम्' इत्यत्र युवा-काङ्ग्रेस-कार्यकर्तृभिः यत् किमपि कृतं, तत् न केवलं असहनीयम् अपितु प्रत्येकं भारतीस्य विशेषतः युवा-पीढ्याः छविं विश्वस्तरे मलिनं कर्तृकं कृत्यम् अस्ति।

​रविवासरे प्रसारिते एकस्मिन् प्रेस-विज्ञप्तौ भाजपा-प्रवक्ता संजय शर्मा काङ्ग्रेस-दलं प्रहरन् अवदत् यत् शीर्षविहीनायाः काङ्ग्रेसस्य नेतृत्वम् अधुना पूर्णतः विवृतं जातम्। एतेषां समीपे न कोऽपि विषयः अवशिष्टः न च नैतिकता। वैदेशिक-प्रतिनिधीनां पुरतः एतादृशं प्रदर्शनं काङ्ग्रेसस्य मर्यादाविहीनां राजनीतिं दर्शयति।

निर्लज्जा काङ्ग्रेसस्य अन्तर्राष्ट्रिय-मञ्चेषु भारतस्य अपमानं करणं तस्याः 'डीएनए' मध्ये सम्मिलितं जातम्। 'समिट' सदृशेषु गरिमामयेषु आयोजनेषु बाधां जनयितुं अतीव लज्जास्पदं वर्तते।

बुद्धिवीहीना काङ्ग्रेस- यदा विश्वं भविष्यस्य तन्त्रज्ञानस्य विषये चर्चां करोति, तदा काङ्ग्रेसस्य समीपे न कोऽपि दृष्टिकोणः (Vision) अस्ति न च अवबोधः। तेषां विरोधः पूर्णतः तर्कहीनः बुद्धिहीनतया च प्रेरितः अस्ति। मुखविहीना काङ्ग्रेस- अद्य एका मुखविहीना संस्था जाता अस्ति, यस्याः समीपे न कोऽपि स्पष्टः नेता अस्ति न च नीतिः। ते केवलं अराजकतां प्रसार्य स्वकीयां राजनैतिक-उपस्थितिं दर्शयितुं इच्छन्ति।

​सः अवदत् यत् राहुल गान्धी स्वस्य राजनैतिक-गुरोः मार्गदर्शकस्य च सैम पित्रोदा महोदयस्य कथनेन पूर्वं तु विदेशेषु भारतस्य छविं विनाशयितुं कार्यं करोति स्म, अधुना तस्यैव वचनेन राहुल गान्धी युवा-काङ्ग्रेस-कार्यकर्तृभिः भारते एव स्थित्वा अस्य छविं विश्वस्तरे विनाशयितुं षड्यन्त्रं कृतवान्।

हिन्दुस्थान समाचार