Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २२ फरवरीमासः (हि.स.)। पश्चिमबङ्गाल–राज्यस्य मुख्यमन्त्री ममता बनर्जी रविवासरस्य प्रातःकाले भारतस्य महान् स्वातन्त्र्यसेनानी आधुनिक–भारतस्य निर्मातृषु अन्यतमस्य मौलाना-अबुल-कलामआजादस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवती। मुख्यमन्त्री सामाजिक–माध्यमस्य ‘एक्स’ (X) इत्यत्र विलिख्य आजाद–महोदयस्य योगदानं स्मृतवती।
स्वसन्देशे मुख्यमन्त्री अवदत् यत् मौलाना-अबुल-कलाम-आजादस्य जीवनं ज्ञानशक्तेः, साम्प्रदायिक–सौहार्दस्य च अटल–देशभक्तेः प्रतीकं आसीत्। सः न केवलं भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अग्रणी नेता आसीत्, अपि तु आधुनिक–भारतस्य आधारशिलां स्थापयितृषु महापुरुषेषु अपि गणनीयः आसीत् इति सा अवोचत्।
मुख्यमन्त्री अपि उल्लिखितवती यत् मौलाना-आजादस्य समग्रं जीवनं देशस्य एकता, शिक्षायाः प्रसारः, पारस्परिक–भ्रातृत्वस्य च दृढीकरणाय समर्पितम् आसीत्। तस्य विचाराः आदर्शाश्च अद्यापि देशवासिनां प्रेरणास्रोतांसि सन्ति।
मुख्यमन्त्रिण्या एषा श्रद्धाञ्जलिः राज्ये स्वातन्त्र्यसङ्ग्रामस्य मूल्यमूल्यानां तथा राष्ट्रिय–एकतां प्रति सम्मानस्य रूपेण अवलोक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता