केन्द्रीयमन्त्री शेखावतः पर्यावरण–सन्तुलने यूनां भूमिकां प्रशशंसितवान्
नवदिल्ली, २२ फरवरीमासः (हि.स.)। केन्द्रीय–संस्कृति–पर्यटनमन्त्री गजेन्द्रसिंह: शेखावत: राष्ट्रवादी–विचारधारया प्रेरितस्य भारतीय–संस्कृतेः संवाहकस्य ''वॉइसेज ऑफ भारत''-संस्थायाः आयोजनं प्रशंसितवान्। इंडिया हैबिटेट सेंटर–स्थले पर्यावरण–सतत–विकास–वि
इंडिया हैबिटेट सेंटर में सम्मेलन का दीप प्रज्ज्वलित कर उद्घाटन करते अतिथिगण।


नवदिल्ली, २२ फरवरीमासः (हि.स.)। केन्द्रीय–संस्कृति–पर्यटनमन्त्री गजेन्द्रसिंह: शेखावत: राष्ट्रवादी–विचारधारया प्रेरितस्य भारतीय–संस्कृतेः संवाहकस्य 'वॉइसेज ऑफ भारत'-संस्थायाः आयोजनं प्रशंसितवान्। इंडिया हैबिटेट सेंटर–स्थले पर्यावरण–सतत–विकास–विषयकं सम्मेलनं तथा “युवा सस्टेनेबिलिटी चेंजमेकर्स्” इति कार्यक्रमः आयोजितः, तस्मिन् विषये सः हर्षं व्यक्तवान्। गतदिवसे रात्रौ दीर्घकालपर्यन्तं प्रवृत्ते अस्मिन् आयोजने देशस्य ख्यातिलब्धाः पर्यावरणविदः, स्वच्छ–ऊर्जा–क्षेत्रे कार्यरताः उद्योग–जगतः प्रतिष्ठिताः संस्थाः, प्राध्यापकाः तथा बहुसंख्यकाः युवानः सहभागीभूताः।

शेखावतः स्वीय–सन्देशे उक्तवान् यत् भारतस्य भविष्याय एते प्रयत्नाः अत्यावश्यकाः सन्ति। यूनां नेतृत्वेन परिवर्तनं साधयितुं एष: उत्तम: प्रयास: इति सः आनन्दं प्रकटितवान्। इंडिया-हैबिटेट–केन्द्रस्य सहभागितया सम्पन्ने अस्मिन् सम्मेलने “सस्टेनेबिलिटी स्टोरी–टेलर्स्”–समूहस्य प्रथम–वर्गः पुरस्कारैः सम्मानितः। अस्मिन्नेव अवसरे “सस्टेनेबिलिटी कर्मा एजुकेशन अवार्ड्स्–२०२६” इत्यस्य लोकार्पणं कृतम्।

अस्मिन् कार्यक्रमे डॉ.अनिलप्रकाश: जोशी, प्रसिद्धः पर्यावरणविद् पीपलबाबा, मैग्सेसे–पुरस्कार–विजेता अरु:, गूंज–संस्थायाः संस्थापिका अंशुगुप्त:, इंडिया-हैबिटेट–केन्द्रस्य निदेशकः प्रा.के.जी.सुरेश:, बिसलेरी इंटरनेशनल–इत्यस्य मुख्य–कार्यकारी–अधिकारी एंजेलो जॉर्ज:, विश्वकर्मा-स्किल्स–विश्वविद्यालयस्य कुलपतिः डॉ.देवस्वरूप: च स्व–स्व–विचारान् प्रस्तुतवन्तः।

वर्ल्ड एनवायरनमेंट डे 2025–अवसरे भजनलाल: शर्मणा राजस्थान–मुख्यमन्त्रिणा यून: सस्टेनेबिलिटी–कथाकारान् कर्तुं उद्दिश्य वॉइसेज-ऑफ-भारत–अभियानस्य शुभारम्भः कृतः। “युवा फॉर सस्टेनेबिलिटी”–अभियानस्य लक्ष्यं छात्रेषु कथावाचन–कौशलस्य माध्यमेन पर्यावरण–विषयान् जनसमक्षं प्रस्तोतुं क्षमता–विकासः अस्ति। अस्य प्रयत्नस्य संजय: शर्मा (राजस्थान–वन–पर्यावरण–जलवायु–परिवर्तन–राज्यमन्त्री) तथा डॉ.मंजूबागमार: (महिला–बाल–विकास–राज्यमन्त्री) इत्येताभ्यां दृढं समर्थनं प्राप्तम्।

एतत् अभियानं पञ्च–पूर्व–उपकुलपतिभिः गठितस्य परामर्श–मण्डलस्य निरीक्षणे सञ्चालितः। अस्मिन् हरिदेव: जोशी पत्रकारिता-एवं-जनसंचारविश्वविद्यालय:, विश्वकर्मा-कौशल-विश्वविद्यालय:, कश्मीर: केंद्रीय-विश्वविद्यालय:, आईएमटी-विश्वविद्यालय:, एपेक्स-विश्वविद्यालय: तथा कनोडिया-स्नातकोत्तर-महिला-महाविद्यालयस्य सहभागिनः सन्ति। उद्योग–जगतः पक्षतः बिसलेरी-इंटरनेशनल, यूफ्लेक्स, टेट्रा पैक तथा राजस्थान चैंबर ऑफ कॉमर्स एंड इंडस्ट्री इत्येतै: समर्थनं कृतम्। सम्मेलने राजेंद्रसिंह: —तरुण-भारत-संघस्य संस्थापकः अध्यक्षश्च—अपि उपस्थितः आसीत्। अन्ते राजीव: टिक्कु, वॉइसेज ऑफ भारत–इत्यस्य प्रमुखः, आगतानां अतिथीन् प्रति आभारं व्यक्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता