Enter your Email Address to subscribe to our newsletters

वाराणसी, 22 फरवरीमासः(हि. स.)।
ऊर्जा-नगरविकासमन्त्री ए के शर्मा रविवासरे वाराणसी नगरे शिवपुरक्षेत्रस्य सुषमानगरकालोनी, गिलटबाजार, लक्ष्मणपुर तथा रघुवंशी नगर इत्यादिषु स्थलेषु कतिपयकिलोमीटरपर्यन्तं पदयात्रां कृत्वा प्रातःकालीनस्वच्छताकार्यस्य द्वार-द्वार-कचरासंग्रहणकार्यस्य च निरीक्षणम् अकरोत्।
अस्मिन् अवसरे मन्त्री एके शर्मा स्थानीयजनैः सह संवादं कृत्वा स्वच्छतासम्बद्धं तेषामभिप्रायं ज्ञातवान्, स्वविचारान् अपि व्यक्तवान्। तत्र पार्षदाः, नगरायुक्तः, सहनगरायुक्तः तथा वाराणसी नगर निगम इत्यस्य अनेके अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
मन्त्री अवदत् यत् वाराणस्यां प्रातःकालीननिरीक्षणसमये अस्माकं स्वच्छतामित्राणां कर्तव्यनिष्ठा स्पष्टतया दृश्यते। स्वच्छताकर्मिणां परिश्रमेण प्रदेशस्य प्रत्येकं नगरं द्योतितं सुगन्धितं च अभवत्। वाराणस्यां अपि प्रातःकालीनस्वच्छतापरीक्षणे प्रत्येकस्मिन् मोहल्ले, प्रत्येकस्मिन् गलिकायां, प्रत्येकस्मिन् चतुष्पथे च अस्माकं स्वच्छतावीरा: कर्म कुर्वन्तः दृष्टाः। एतेन मम व्यक्तिगता अत्यन्तं हर्षानुभूति: जाता।
---------------
हिन्दुस्थान समाचार