Enter your Email Address to subscribe to our newsletters

वाराणसी, 22 फरवरीमासः(हि. स.)।
वाराणस्यां स्वास्थ्यकेन्द्रेषु मुख्यमन्त्रिणः आरोग्यमेलायाः आयोजनम् अभवत्। तत्र कुलं 54 शिविराणि स्थापितानि। 83 चिकित्सकाः तथा 253 पैरामेडिकल कर्मकराः उपस्थिताः आसन्, येषां सन्निधौ 2045 रोगिणः उपचारं प्राप्तवन्तः। लाभार्थिषु रोगिषु 805 पुरुषाः, 1039 महिलाः तथा 201 बालकाः समाविष्टाः आसन्।
मुख्यमन्त्रिणः आरोग्यमेलायाः शिविराणां विषये मुख्यचिकित्साधिकारी डॉ राजेश प्रसादः उक्तवान् यत् उपचारं प्राप्तेषु रोगिषु हेपेटाइटिस बी इत्यस्य 36 परीक्षणानि कृतानि, तेषु कश्चित् अपि पॉजिटिव् न आसीत्। 16 नेत्रपरीक्षणानि कृतानि। ज्वररोगिणां 274 जनानां उपचारः कृतः। मलेरियारोगस्य 79 त्वरितपरीक्षणानि तथा डेंगूरोगस्य 29 परीक्षणानि कृतानि, सर्वासु अपि निगेटिव् परिणामाः प्राप्ताः।
मधुमेहरोगिणां 267, त्वग्रोगिणां 267, श्वसनरोगिणां 156, जठरान्त्ररोगिणां 203, यकृतरोगिणां 23, उच्चरक्तचापरोगिणां 105, रक्ताल्पतारोगिणां 15, क्षयरोगसंदिग्धानां 10, गर्भवतीनाम् एएनसी परीक्षणार्थं 104, कुपोषितबालकानां 4 तथा टेली मानस सेवा अन्तर्गतं 2 रोगिणां परामर्शः प्रदत्तः। अपि च 39 जनान् तम्बाकूपानपरित्यागार्थं परामर्शः प्रदत्तः।
---------------
हिन्दुस्थान समाचार