महाविधिक-सहायता-शिविरे ९८९० लाभार्थिभ्यः योजनानां लाभः प्राप्तः
मीरजापुरनगरम्, २२ फरवरीमासः (हि.स.)। जनपद–विधिक–सेवा–प्राधिकरणेन रविवासरे जी.आई.सी.–प्रांगणस्य महुवरिया–परिसरे महा–वृहद् विधिक–सहायता–सेवा–शिविरस्य आयोजनं कृतम्। राष्ट्रीय–विधिक–सेवा–प्राधिकरणस्य, नवीदिल्ली तथा उत्तरप्रदेश–राज्य–विधिक–सेवा–प्राधिकर
महिला को योजना का लाभ देते अधिकारी।


मीरजापुरनगरम्, २२ फरवरीमासः (हि.स.)। जनपद–विधिक–सेवा–प्राधिकरणेन रविवासरे जी.आई.सी.–प्रांगणस्य महुवरिया–परिसरे महा–वृहद् विधिक–सहायता–सेवा–शिविरस्य आयोजनं कृतम्। राष्ट्रीय–विधिक–सेवा–प्राधिकरणस्य, नवीदिल्ली तथा उत्तरप्रदेश–राज्य–विधिक–सेवा–प्राधिकरणम्, लखनऊ इत्यस्य निर्देशानुसारं आयोजितस्य अस्य शिविरस्य शुभारम्भः मण्डलायुक्तेन राजेश–प्रकाशेन, जनपद–न्यायाधीशेन अरविन्द–कुमार–मिश्र–द्वितीयेन, जिलाधिकारीणा पवन–कुमार–गंगवारेण तथा आरक्षक–अधीक्षकेण अपर्णा–रजत–कौशिकया दीपप्रज्वलनेन कृतः।

अधिकारिणः विभिन्न–विभागैः स्थापितानां शिविराणां अवलोकनं कृत्वा जन–कल्याणकारी–योजनानां विषये सूचनां प्राप्तवन्तः। शिविरे विधिक–सशक्तीकरणस्य अन्तर्गतं निर्बल–वर्गाणां, दिव्याङ्गजनानां, महिलानां, बालकानां, असङ्घटित–क्षेत्रस्य श्रमिकाणां तथा अनुसूचित–जाति–जनजातीनां जनानां योजनाभिः संयोजनाय विशेषं बलं दत्तम्।

आयोजनकाले सर्वकारस्य विभिन्न–योजनानां अन्तर्गतं ९८९० लाभार्थिनः लाभान्विताः अभवन्। उपस्थिताः अधिकारिणः विधिक–सहायता–शिविरस्य उद्देश्यं महत्त्वं च प्रकाशयित्वा सामान्यजनं योजनालाभ–ग्रहणाय आहूतवन्तः। कार्यक्रमे न्यायिक–अधिकारिणः, प्रशासनिक–अधिकारिणः, विभिन्न–विभागानां प्रतिनिधयः, पी.एल.वी. (अधिकार–मित्राणि) सहितं बहुसंख्यकाः जनाः उपस्थिताः आसन्। शिविरे लोकगायिका ऊषा–गुप्ता कजली–लोकगीतानि च प्रस्तुतवती, तथा छात्राः छात्र्यश्च सांस्कृतिक–कार्यक्रमैः कार्यक्रमस्य शोभां वर्धितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता