Enter your Email Address to subscribe to our newsletters

वाराणसी,22 फरवरीमासः (हि.स.)।
बहुराष्ट्रीयमोटरसंस्थायाः होंडा कार्स इंडिया लिमिटेड इत्यस्याः फाउण्डेशन् इण्डिया विभागेन स्वस्य कॉर्पोरेट् सामाजिकउत्तरदायित्व सीएसआर उपक्रमस्य अन्तर्गतं स्वैच्छिकरक्तदानसेवाभ्यः सुसज्जितस्य रक्तसंग्रहणचलवाहनस्य क्रयतैनाती च कृते वित्तीयसहायतायाः घोषणा कृता।
अस्य उपक्रमस्य औपचारिकीकरणं काशी हिंदू विश्वविद्यालय इत्यत्र आयोजिते समारोहे कम्पनी विश्वविद्यालययोः मध्ये समझौतास्मरणपत्रस्य एमओयू हस्ताक्षरविनिमयेन सम्पन्नम्।
सीएसआरसमर्थितं एतत् रक्तसंग्रहणचलवाहनं बीएचयू चिकित्साविज्ञानसंस्थानस्य सम्बद्धरक्तकेन्द्रस्य च सहयोगेन सञ्चालितं भविष्यति। अस्य उद्देश्यः विशेषतः ग्राम्येषु वञ्चितसमुदायेषु च जागरूकताअभियानस्य विस्तारः अस्ति। सुरक्षितं कुशलं च रक्तसंग्रहणं सुनिश्चितुं एषा मोबाइल् एकका अत्याधुनिकदानकर्तृशय्या, शीतलीकरणप्रणाली, परीक्षणसुविधा, भण्डारणएककैः च सुसज्जिता भविष्यति।
सर सुंदरलाल चिकित्सालय इत्यस्य रक्तकेन्द्रस्य प्रभारी प्राध्यापकः डॉ संदीपकुमारस्य कथनानुसारं अस्य उपक्रमस्य अन्तर्गतं पूर्णसुसज्जितरक्तसंग्रहणबसस्य क्रयाय अनुकूलनाय च सीएसआरनिधेः उपयोगः भविष्यति। परिसरेषु समीपवर्तिषु समुदायेषु च स्वैच्छिकरक्तदानअभियानस्य विस्तारः करिष्यते, सुरक्षितरक्तसंग्रहणभण्डारणपरिवहनप्रणाल्यः सुदृढीक्रियन्ते। एतेन नियमितरक्तदानस्य प्रोत्साहनाय संयुक्तजागरूकताअभियाने सुकरता भविष्यति।
कम्पन्याः उपाध्यक्षः कॉर्पोरेट्कार्येषु पीयूष मित्तल प्रतिनिधिश्च प्रदीप कुमार सिंह उक्तवन्तौ यत् सामुदायिककल्याणप्रतिबद्धतायाः अन्तर्गतं अस्य जीवनरक्षकउपक्रमस्य समर्थनं कृत्वा वयं गर्विताः स्मः। एषा रक्तमोबाइल् एकका सुरक्षितरक्तस्य उपलब्धतां वर्धयिष्यति, स्वैच्छिकरक्तदानसंस्कृतिं च प्रोत्साहयिष्यति, येन अन्ततः असंख्यजीवनानि रक्षितानि भविष्यन्ति।
बीएचयू कुलपतिः अजित कुमार चतुर्वेदी अवदत् यत् एषा भागीदारी विश्वविद्यालयस्य स्वास्थ्यसेवाकार्यक्रमाणां कृते महत्त्वपूर्णा उपलब्धिः अस्ति। मोबाइल् रक्तवाहनस्य माध्यमेन रक्तदानअभियानस्य सञ्चालनक्षमता पर्याप्तरूपेण वर्धिष्यते, आवश्यकता विद्यमानानां चिकित्सालयानां रोगिणां च कृते विश्वसनीयः रक्तपुरवठः सुनिश्चितः भविष्यति।
---------------
हिन्दुस्थान समाचार