असमे ऑर्थोडॉक्स चाय इति विषये अनुदानं 10 तः वर्धित्वा 15 रुप्यकाणि प्रतिकिलोमितम्
गुवाहाटी, 23 फरवरीमासः (हि.स.)। मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा सोमवासरे ऑर्थोडॉक्स चाय इत्यस्य उपरि राज्यसर्वकारेण प्रदीयमाना अनुदानराशिः प्रति किलोग्राम दशरूप्यकात् वर्धयित्वा पञ्चदशरूप्यकपर्यन्तं कर्तुं घोषणां कृतवान्। मुख्यमन्त्री अद्य स्व
The image shared by Assam CM Dr Himanta Biswa Sarma


गुवाहाटी, 23 फरवरीमासः (हि.स.)।

मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा सोमवासरे ऑर्थोडॉक्स चाय इत्यस्य उपरि राज्यसर्वकारेण प्रदीयमाना अनुदानराशिः प्रति किलोग्राम दशरूप्यकात् वर्धयित्वा पञ्चदशरूप्यकपर्यन्तं कर्तुं घोषणां कृतवान्।

मुख्यमन्त्री अद्य स्वस्य सामाजिकमाध्यमसन्देशे उक्तवान् यत् अस्मिन् वर्षे असमस्य चायस्य अभिलेखोत्पादननिर्यातयोः अनन्तरं सर्वकारेण चायउद्योगं अधिकं सुदृढीकर्तुं निर्णयः कृतः। तेन निर्दिष्टं यत् एषः निर्णयः ऑर्थोडॉक्स चायस्य उत्पादनवृद्ध्यर्थम्उद्योगस्य प्रोत्साहनार्थं च गृहीतः।

तेन विश्वासः व्यक्तीकृतः यत् अस्य निर्णयस्य फलतः चायउद्योगसम्बद्धानां उद्यमिनां सह राज्यस्य चायश्रमिकभ्रातृभगिनीभ्यः अपि पर्याप्तः लाभः हर्षश्च भविष्यति।।

हिन्दुस्थान समाचार