Enter your Email Address to subscribe to our newsletters

रायपुरम् ,23 फ़रवरीमासः (हि.स.)।
छत्तीसगढ़विधानसभायाः वित्तीयसत्रम् अद्य सोमवासरे २३ फरवरी तिथेः आरभ्य २० मार्च २०२६ पर्यन्तं भविष्यति। सत्रस्य आरम्भः राज्यपालस्य रमेन डेका महोदयस्य अभिभाषणेन भविष्यति। प्रथमदिने दिवंगतसदस्यान् प्रति श्रद्धाञ्जलिः अर्प्यते। विपक्षदलानि धर्मस्वातन्त्र्यविधेयकस्य राज्यस्य वित्तीयस्थितेः च विषये तीक्ष्णं प्रतिपक्षभावं प्रदर्शयितुं शक्नुवन्ति। वित्तीयसत्रे विष्णु देव साय सर्वकारं प्रति विपक्षेन रणनीतिः निर्मिता अस्ति।
उल्लेखनीयं यत् अस्मिन् बजट् सत्रे समग्रतया पञ्चदश बैठकाः आयोज्यन्ते। छत्तीसगढ़स्य विष्णु देव साय सर्वकारे वित्तमन्त्री ओ पी चौधरी २४ फरवरी तिथौ मध्याह्ने १२ ३० वादने वित्तीयवर्षस्य २०२६ २७ इत्यस्य बजट् प्रस्तोष्यति। बजट् विषये सामान्यचर्चा २६ तथा २७ फरवरी तिथ्योः भविष्यति। ततः ९ मार्चतः १७ मार्चपर्यन्तं विभागानुसारम् अनुदानमाङ्गानां विषये विचारः क्रियते। १७ मार्च तिथौ विनियोगविधेयकं प्रस्तुतं भविष्यति तथा १८ मार्च तिथौ तस्मिन् चर्चा पारणं च भविष्यति। एषः बजट् विष्णु देव साय सर्वकारस्य तृतीयं वित्तीयसत्रं भविष्यति।
हिन्दुस्थान समाचार