स्वयंसेवकानां शिविरं समाजे सेवासहयोगयोर्भावनां दृढयति : डॉ. श्याम मिश्रा
कानपुरम्, 23 फरवरीमासः (हि.स.)।छत्रपति शाहूजी महाराज विश्वविद्यालयस्य सीएसजेएमयू राष्ट्रियसेवायोजनायाः एकक 6 द्वारा ग्रामपञ्चायत बिठूरस्य अन्तर्गत उदेतपुर ग्रामे सप्तदिनात्मक विशेषशिविरस्य आयोजनं कृतम्। सोमवासरे शिविरस्य अन्तिमदिने मुख्यातिथिरूपेण
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 23 फरवरीमासः (हि.स.)।छत्रपति शाहूजी महाराज विश्वविद्यालयस्य सीएसजेएमयू राष्ट्रियसेवायोजनायाः एकक 6 द्वारा ग्रामपञ्चायत बिठूरस्य अन्तर्गत उदेतपुर ग्रामे सप्तदिनात्मक विशेषशिविरस्य आयोजनं कृतम्। सोमवासरे शिविरस्य अन्तिमदिने मुख्यातिथिरूपेण राष्ट्रियसेवायोजनासमन्वयकः डॉ श्याममिश्र उपस्थितः आसीत्। तेन स्वयंसेवकानां प्रशंसा कृत्वा उक्तं यत् एतादृशाः शिविराः समाजे सेवा सहयोगभावनां दृढीकुर्वन्ति।

शिविरस्य अवधौ साक्षरतामिशन योग स्वच्छभारतअभियान सफाईअभियान स्वच्छजलमिशन पर्यावरणसंरक्षण साइबरअपराधनिवारण नशामुक्ति इत्यादिषु विषयेषु जागरूकताकार्यक्रमाः आयोजिताः। अपि च ग्रामीणानां कृते निःशुल्क चिकित्सास्वास्थ्यशिविरः परामर्शशिविरः च स्थापितः यस्मिन् प्रायः द्विशतग्रामीणानां स्वास्थ्यपरीक्षणं कृतम्। परीक्षणकाले द्वयोः ग्रामीणयोः नेत्रशल्यक्रियाः अपि कारिताः।

स्वयंसेवकाः शिविरकाले प्रतिदिनं प्रातःकालभोजनं मध्याह्नभोजनं सायंकालीनाल्पाहारं च स्वयं निर्माय सामूहिकरूपेण उपभुक्तवन्तः।

समापनावसरे राष्ट्रियसेवायोजनायाः एकक 6 समन्वयकः डॉ अजयकुमारयादव ग्रामप्रधानः विद्यासागरयादव च मुख्यातिथेः पुष्पगुच्छेन स्वागतं कृतवन्तौ। कार्यक्रमे राष्ट्रियसेवायोजनास्वयंसेवकाः ग्रामीणाः डॉ उमेशेन सहिताः अन्ये बहवः जनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार