दिल्ल्यां ‘राह-वीर’ योजना आरप्स्यते , दुर्घटना पीड़ितानां सहाय्यकर्तृभ्यो मिलिष्यन्ति 25 सहस्रं रुप्यकाणि : रेखा गुप्ता
नव दिल्ली, 23 फ़रवरीमासः(हि.स.)।मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् दिल्लीसरकारेण केन्द्रसरकारस्य राहवीर योजना राजधानीक्षेत्रे अपि प्रवर्तयितुं निर्णयः कृतः। अस्यां योजनायां मार्गदुर्घटनासु गम्भीरतया आहतानां साहाय्यं कुर्वन्तः नागरिकाः पञ्चविंशतिस
दिल्ली की मुख्यमंत्री और राज्य नाम प्राधिकरण (एसएनए) की चेयरमैन रेखा गुप्ता


नव दिल्ली, 23 फ़रवरीमासः(हि.स.)।मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् दिल्लीसरकारेण केन्द्रसरकारस्य राहवीर योजना राजधानीक्षेत्रे अपि प्रवर्तयितुं निर्णयः कृतः। अस्यां योजनायां मार्गदुर्घटनासु गम्भीरतया आहतानां साहाय्यं कुर्वन्तः नागरिकाः पञ्चविंशतिसहस्ररूप्यकाणां नगदपुरस्कारं प्रशस्तिपत्रं च प्राप्स्यन्ति। सा अवदत् यत् केन्द्रसरकारेण अस्य मानवीयप्रयत्नस्य प्रोत्साहनार्थं आर्थिकपुरस्कारव्यवस्था कृता अस्ति येन सामान्यजनाः निर्भयतया दुर्घटनापीडितानां साहाय्यं कर्तुं शक्नुयुः।

सोमवासरे विज्ञप्त्या सूचना दत्ता यत् अस्य योजनायाः मुख्यलक्ष्यम् अस्ति यत् सामान्यजनाः मार्गदुर्घटनापीडितान् गोल्डनआवर इति निर्दिष्टकालावधौ चिकित्सासुविधां प्रापयितुं प्रेर्येरन्। केन्द्रसरकारस्य मार्गपरिवहनराजमार्गमन्त्रालयस्य मतम् अस्ति यत् अधिकाधिकाः जनाः अग्रे आगत्य साहाय्यं कुर्वन्ति चेत् मार्गदुर्घटनाजन्यमृत्युदरे उल्लेखनीयः ह्रासः साध्यः।

मुख्यमन्त्री उक्तवती यत् बहवः जनाः कानूनीझंझटस्य पुलिसकार्यालयस्य वा भयात् साहाय्यं कर्तुं न इच्छन्ति किन्तु एषा योजना तं भयम् अपास्य नागरिकान् प्रोत्साहयिष्यति। दिल्लीमहानगरे यत्र प्रतिदिनं सहस्रशः वाहनानि सञ्चरन्ति तत्र गोल्डनआवरमध्ये चिकित्सासहाय्यप्राप्तिः जीवनमृत्योर्मध्ये निर्णायकत्वं धारयति। साहाय्यकर्तृभ्यः प्रोत्साहनराशेः शासनगतसंरक्षणस्य च प्रदानेन अधिकजनाः साहसं कृत्वा आहतान् शीघ्रं चिकित्सालयं नयिष्यन्ति येन बहूनि अमूल्यजीवनानि रक्षितानि भविष्यन्ति।

मुख्यमन्त्री विश्वासं व्यक्तवती यत् दिल्लीसरकारः अस्य योजनायाः प्रभावीप्रवर्तनद्वारा मार्गसुरक्षां मानवीयसवेदनशीलतां च सुदृढां करिष्यति। मन्त्रालयेन विस्तृतनिर्देशाः निर्गताः येषां आधारेण राज्याः केन्द्रशासितप्रदेशाश्च योजनां प्रवर्तयन्ति। एषा योजना मोटरवाहन संशोधन अधिनियम 2019 इत्यस्य धारा 134ए अन्तर्गत अधिसूचित गुड सेमेरिटन नियमैः अनुरूपा अस्ति। एतेषु नियमेषु स्वेच्छया आहतस्य असहायस्य संकटग्रस्तस्य वा साहाय्यं कुर्वन्तः नागरिकाः कानूनीसंरक्षणं प्राप्नुवन्ति।

अस्य योजनायाः लक्ष्यं केवलं दुर्घटनापीडितानां जीवनरक्षणं न अपि तु समाजे मानवीयसवेदनशीलतावर्धनम् अपि अस्ति। यः कश्चित् गम्भीरमार्गदुर्घटनायां आहतं व्यक्तिं साहाय्यं कृत्वा गोल्डनआवरमध्ये चिकित्सालयं ट्रॉमाकेन्द्रं वा प्रापयति स पुरस्काराय पात्रः भविष्यति। प्रत्येकस्मिन् प्रकरणे राहवीर इत्याख्यः पञ्चविंशतिसहस्ररूप्यकाणि नगदरूपेण प्राप्स्यति। यदि एकस्मिन् एव दुर्घटनाप्रसङ्गे बहवः पीडिताः रक्षिताः स्युः तथापि अधिकतमं पञ्चविंशतिसहस्ररूप्यकाणि एव प्रदीयन्ते। वर्षपर्यन्तं चयनितेषु दश श्रेष्ठ राहवीरेषु राष्ट्रीयस्तरे प्रत्येकं लक्षरूप्यकाणां विशेषपुरस्कारः अपि दास्यते। प्रत्येकपुरस्कारस्य सह प्रशस्तिपत्रं अपि भविष्यति।

योजनायाः समुचितक्रियान्वयनार्थं जनपदस्तरे मूल्यांकनसमितिः गठिता भविष्यति यस्याम् जिलामजिस्ट्रेट वरिष्ठपुलिसअधिकारी मुख्यचिकित्साधिकारी क्षेत्रीयपरिवहनअधिकारी च सदस्याः भविष्यन्ति। चयनितानां राहवीराणां पुरस्कारराशिः प्रत्यक्षं तेषां बैंकखाते आनलाइनमाध्यमेन प्रेषिता भविष्यति। अस्यार्थं पृथक् बैंकखातः स्थाप्यते समग्रा प्रक्रिया डिजिटलप्लेटफॉर्मे अभिलेखिता भविष्यति। मन्त्रालयेन राज्येभ्यः प्रारम्भिकअनुदानम् अपि प्रदास्यते।

मुख्यमन्त्री उक्तवती यत् अस्य मानवीयसंवेदनाभरितायाः योजनायाः प्रवर्तनात् राजधानीक्षेत्रे मार्गदुर्घटनासु त्वरितसहाय्यसंस्कृतिः विकसिता भविष्यति।

---------------

हिन्दुस्थान समाचार