डॉ.शेफालीसिंह: — भारतीय–संस्कृतेः आधारः “हाय–हैलो” न भवति
बिजनौरनगरम्, २३ फरवरीमासः (हि.स.)। जनपद–बिजनौरनगरे धामपुर–नगरे स्थिते रामगोपाल–रामचन्द्र–सरस्वती–विद्या–मन्दिर–इण्टर–महाविद्यालये “सप्त–शक्ति–सङ्गम–समापन-कार्यक्रम:” आयोजित: आसीत्। कार्यक्रमस्य शुभारम्भः डॉ.शेफालीसिंह: चौहान, कमलेश: सैनी, डॉ.अनामिक
कार्यक्रम में शामिल मातृशक्ति


बिजनौरनगरम्, २३ फरवरीमासः (हि.स.)। जनपद–बिजनौरनगरे धामपुर–नगरे स्थिते रामगोपाल–रामचन्द्र–सरस्वती–विद्या–मन्दिर–इण्टर–महाविद्यालये “सप्त–शक्ति–सङ्गम–समापन-कार्यक्रम:” आयोजित: आसीत्। कार्यक्रमस्य शुभारम्भः डॉ.शेफालीसिंह: चौहान, कमलेश: सैनी, डॉ.अनामिका, मीनू मेहरोत्रा तथा हेमेंद्रसिंह: इत्येतैः अतिथिभिः सह कृतः।

मुख्यातिथिरूपेण उपस्थित्या जनपद–पञ्चायत–अध्यक्षा डॉ.शेफालीसिंह: चौहान उक्तवती यत्— अयं कार्यक्रमः नारी–शक्तेः एकत्रीकरणस्य आधारः अस्ति, नारी–शक्तेः जागरणं च। तया नरेन्द्रमोदी– मातुः, लालबहादुरशास्त्री– मातुः च स्मरणं कृत्वा नारी–शक्तेः महत्त्वं प्रतिपादितम्। सा अवदत्— सप्तशक्त्या माध्यमेन राष्ट्रं संयोजयन्तः तत्त्वानि संयोजनीयानि। अस्माकं षोडश–संस्काराणां केन्द्रे मातृ–शक्तिरेव वर्तते। मातृ–भाषायाः सम्मानं अनिवार्यम्। भारतीय–संस्कृतेः मूलभूत–आधारौ नमस्ते तथा प्रणामं विस्मृत्य हाय–हैलो–स्वीकारः लज्जास्पदः। माता एव बालान् संस्कारान् शिक्षयति; सप्त–शक्ति–सङ्गमात् संस्काराः गृहीत्वा गन्तव्यम्।

अस्मिन् अवसरे विद्या–मन्दिरस्य छात्रैः गीत–प्रस्तुति: कृता। कार्यक्रम–सञ्चालिका पूर्णिमा शर्मा आचार्या मंचासीनातिथीनां परिचयं दत्तवती। विशिष्टातिथिरूपेण कमलेश: सैनी, तथा डॉ.अनामिका (अध्यक्षा, वर्धमान–महाविद्यालयः, बिजनौरनगरम्) सहिताः अन्ये अपि गणमान्याः उपस्थिताः आसन्। कार्यक्रमस्य संचालनं पूर्णिमा-शर्मणा कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता